म्यान्मरे ६००० कारागारवासिनः विमोचिताः।
आङ् सान् स्यूची न मोचिता।
बाङ्कोक्> म्यान्मर देशस्य ७७ तम स्वतन्त्रतावार्षिकस्य अंशतया षट्सहस्राधिके कारागारवासिनः सैनिकप्रशासनेन मोचिताः।
किन्तु २०२१ तम वर्षादरभ्य कारागारे बन्धिता म्यान्मरस्य स्वतन्त्रतान्दोलननायिका आङ् सान् स्यूची न मोचिता।