OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, January 28, 2025

 वखफ् परिष्करणविधेयकं जे पि सि समित्या अङ्गीकृतम्। 

विपक्षनिर्देशाः निरस्ताः; शासकपक्षीयाः अङ्गीकृताः। 

आयव्ययपत्रकसम्मेलने परिगणिष्यते। 

नवदिल्ली> केन्द्रप्रशासनेन आनीतंवखफपरिष्करणविधेयकं संयुक्तसंसदीयसमित्या [जे पि सि] परिष्करणेन अङ्गीकृतम्। विपक्षसदस्यैः निर्दिष्टानि ४४ परिष्करणानि निरस्य, शासकपक्षीयाङ्गैः आनीतानि २२ निर्देशेषु १४ संख्याकानि स्वीकृत्य च जेपिसी समित्या विधेयकम् अङ्गीकृतम्। 

  विपक्षाङ्गानां प्रातिकूल्यमतीत्य १०विरुध्य १६ मतदानैरेव विधेयकस्य अङ्गीकारप्राप्तिः। ३१ तमे दिनाङ्के आरप्स्यमाणे संसदः आयव्ययपत्रकसम्मेलने विधेयकमवतारयिष्यति।