दिल्ली विधानसभानिर्वाचनं फेब्रुवरि ५ तमे दिनाङ्के।
द्वे उपनिर्वाचने च प्रख्यापिते।
मुख्यनिर्वाचनायोगः राजीवकुमारः निर्वाचनं प्रख्यापयति। |
नवदिल्ली> दिल्ली विधानसभायाः ७० मण्डलेषु सामाजिकनिर्वाचनं प्रख्यापितम्। फेब्रुवरि ५ तमे दिनाङ्के एकेनैव सोपानेन मतदानं, अष्टमे दिनाङ्के मतगणना च भविष्यति। मुख्यनिर्वाचनायोगेन राजीवकुमारेण आकारिते वार्ताहरसम्मेलने आसीदिदं प्रख्यापनम्।
तद्दिने एव मण्डलद्वये विधानसभा उपनिर्वाचनं च विधास्यति। उत्तरप्रदेशस्य मिल्किपुरमण्डलं यत्र अयोध्यामन्दिरमपि अन्तर्भवति, तमिलनाटस्थे ईरोड् ईस्ट् मण्डले च उपनिर्वाचनं भविष्यति।
दिल्लीविधानसभानिर्वाचनवेदिकायां प्रशासनं संस्थापयितुं आम् आद्मी दलं, परिगृहीतुं भाजपा दलं च कठिनप्रयत्नं कुर्वते स्तः।