OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, January 18, 2025

 संस्कृतभारतीदेहरादूनेन  गीतशिक्षणकेन्द्रस्य  शुभारम्भो विहितः।

वार्ताहरः - धीरजमैन्दानी

     देहरादूनम्>  संस्कृतभारती देहरादून द्वारा पंचायती मंदिर घोसी गली देहरादूने गीताशिक्षण केंद्रस्य शुभारंभः कृतः।  मुख्यातिथि श्री रवि गिरी महाराजः जंगम शिवालयः, विशिष्टातिथिः श्री विकास वर्मा हनुमान चालीसा साप्ताहिक मिलन प्रांत प्रमुखः बजरंग दलं, कार्यक्रमस्य अध्यक्षः डॉ प्रदीप सेमवालः जनपदमंत्री देहरादूनम्, केंद्रशिक्षकः आचार्यः योगेशकुकरेती अथ च सहकेंद्र शिक्षकः नवनीत राजवंशी च   दीपप्रज्ज्वालनं  कृत्वा अकुर्वन्।

  कार्यक्रमे मुख्यातिथिना स्वामिना रवि गिरिणा द्वारा गीतायाः महत्वं  कथितं यत्  गीता अस्माकं भारतीय संस्कृतेः  आधारो विद्यते। अतः एव प्रत्येकं भारतीयेन प्रत्येकेन संस्कृतं पठनीयम्।

  विशिष्टातिथिः श्री विकास वर्मा  अकथयत् यद् धर्मस्य रक्षायै एतादृशं शिक्षणम् अत्यन्तं अनिवार्यम्। गीता शिक्षण केंद्रस्य माध्यमेन  समाजे एकस्याः नूतन ऊर्जायाः  समावेशो भविष्यति।

  कार्यक्रमाध्यक्षो डॉ प्रदीप सेमवालः स्वीये वक्तव्ये कथितवान् यत्  भारतीय संस्कृतेः मूलाधारः संस्कृतभाषा । संस्कृतं बिना भारतस्य कल्पना न शक्यते। संस्कृत भारती द्वारा भारतीय संस्कृतिं जीवितां स्थापयितुं  संस्कृत संभाषण केंद्राणि,बाल केंद्राणि, गीता शिक्षण केंद्राणि इव  विविधोपक्रमाणाम्  आयोजनम् अनुष्ठीयते।  यत्र संस्कृतसम्भाषणम् आरभ्य संस्कृत शास्त्रपठनस्यापि  कार्यं क्रियते। बिना गीतां विना रामायणं  च भारतीय संस्कृतिः सुरक्षिता  न संभवा। गीता विश्व कल्याणस्य भावनया विश्वं योजयति।  कार्यक्रमे उत्तराखंड विद्वत् सभायाः प्रतिनिधीनामपि गरिमामयी उपस्थितिः आसीत्। गीताशिक्षक  आचार्यः योगेश कुकरेती अथ च  नवनीत राजवंशी  छात्रेभ्यो गीताश्लोकानाम् अभ्यासं  कारितवन्तौ। ततः पूर्वं धृति पुरोहितेन अक्षय पुरोहितेन च  स्वागतगीतम् अगीयत। राधा कृष्ण वैदिकेन  मंगलाचरणं वैदिकं  कृतम्।  

 संस्कृतभारती देहरादूनस्य महानगर मंत्रिणा आचार्येण माधवपौडेलेन  कार्यक्रमस्य सकुशलं सञ्चालनं कृतम् । 

 कार्यक्रमे संस्कृतभारती रायपुर खंडस्य खंडसंयोजकः आचार्यः नीतीश मैठाणी, सहखंड संयोजिका डॉ. बिना पुरोहितः, संस्कृत भारत्याः विभाग संयोजकः श्री नागेंद्र व्यासः सहसंयोजकः डॉ. नवीन जसोला, डोईवाला खंड संयोजकः डा. आनंद जोशी, विश्व हिंदू परिषदः राजेश सिंहः अन्ये समाजस्य गणमान्यजनाः  गीताशिक्षणकेन्द्रस्य गीताध्ययनशीलाः शिक्षार्थिनः च  उपस्थिताः आसन्।