रेल्यानपेटिकायाम् अग्निबाधा इति विशङ्क्य बहिः उत्पतिताः ११ यात्रिकाः मृताः।
मुम्बै> महाराष्ट्रेषु जल्गावे प्राणरक्षार्थं रेल्यानात् बहिः कूर्दनेन पतिताः द्वादश जनाः मृताः। समीपस्थ रेल्पट्टिकायाः आगतम् अन्यं रेल्यानं घट्टयित्वा एव भूरि जनाः मृताः। दश यात्रिकाः व्रणिताः। लक्नौ देशतः मुम्बैदेशं प्रति आगम्यमानं रेल्यानं भवति पुष्पक् एक्स्प्रस्। अस्य रेल्यानस्य पेटिकायाः एकायाः अग्निः धूमः च उत्थितः इति सन्दिह्य यात्रिकाः रेल्यानात् बहिः कूर्दनमकरोत्। तस्मिन्नवसरे अन्यपट्टिकायाम् आगतं 'कर्णाटक' एक्सप्रस् नाम रेल्यानस्य अधः पतित्वा एव द्वादश जनानां मृत्युः इति प्रतिवेदनमस्ति। विंशत्यधिकाः यात्रिकाः यानात् बहिः कूर्दनमकुर्वन्।