आणवशास्त्रज्ञः राजगोपाल चिदम्बरं निर्यातः।
पोख्रानपरीक्षणस्य चालकशक्तिः।
मुम्बई> भारतस्य आणवशक्तिं रूपीकृतवत्सु प्रमुखः तथा च 'पोख्रान् आणवपरीक्षणस्य' चालकशक्तिरूपेण प्रवर्तितः आणवशास्त्रज्ञः राजगोपाल चिदम्बरं [८९] दिवंगतः।
१७ वर्षाणि केन्द्रसर्वकारस्य शास्त्रीयोपदेष्टा , भाभा अटोमिक् गवेषणकेन्द्रस्य निदेशकः, आणवोर्ज आयोगस्य अध्यक्षः इत्यादीनि बहूनि स्थानानि तेन ऊढितानि। १९७५ तमे वर्षे पद्मश्री, १९९९ तमे पद्मविभूषणं च तस्मै समर्पितम्।