दिल्ली विधानसभानिर्वाचनम्।
प्रचारणोत्साहे राजनैतिकदलानि।
नवदिल्ली> विधानसभानिर्वाचनस्य प्रचारणोत्साहे दिल्ल्यां प्रमुखानि राजनैतिकदलानि। अनुस्यूतप्रशासनं लक्ष्यीकृत्य आम् आद्मी पार्टी [आप्], अधिकारग्रहणाय भा ज पा, विनष्टप्रभावस्य पुनर्ग्रहणाय कोण्ग्रस् च सर्वायुधान् परिगृह्य प्रचारणोत्साहे वर्तन्ते।
पञ्चवर्षाभ्यन्तरे दिल्ल्याः कर्मराहित्यं परिहरिष्यतीति 'आप्' दलस्य नेता मुख्यमन्त्रिचरश्च अरविन्द केज्रिवालः उद्घोषितवान्। दशवर्षीयप्रशासनेन आप् सर्वकारः भ्रष्टाचारे अन्यानवाप्तोन्नतसीमां [World record] प्राप्तवानिति भाजपादलेन निन्दितम्। दिवंगतायाः भूतपूर्वप्रधानमन्त्रिणः षीला दीक्षितस्य विकासादर्श एव वरमिति कोण्ग्रसनेत्रा राहुलगान्धिना प्रख्यापितम्। फेब्रुवरि पञ्चमदिनाङ्के भवति दिल्लीनिर्वाचनम्।