उत्तरभारतं अतिशैत्येन कम्पते।
दुर्घटनाः वर्धन्ते।
नवदिल्ली> उत्तरभारते शैत्यं तस्य उच्चस्थायिं प्राप्नोति। दिल्ल्यां १९ विमानानां लक्ष्यं परिवर्तितम्। चतुश्शतं विमानानि विलम्बितानि। ४५ संख्याकानि निरस्तानि च। ८१ रेल् यानान्यपि विलम्बितानि।
राजवीथिषु हिमधूलिवर्षेण पुरोमार्गमदृष्ट्वा यानदुर्घटनाः साधारणं वर्तन्ते। दिल्ली-मुम्बय् राजमार्गे बस् - ट्रक्यान संघट्टने एकः मृतः; चत्वारः आहताः।
न केवलं दिल्ल्याम् इतरेषु प्रातिवेशिकराज्येषु च अतिशैत्यं हिमधूलिवर्षश्च अनुभूयते। राजस्थानं, हरियानं, उत्तरप्रदेशः इत्यादिराज्येष्वपि अतिशैत्यक्लेशाः सन्ति।