सोनामार्ग-गगनगिरि भौमान्तर्वीथी उद्घाटितः। सोनामार्ग भौमान्तर्मार्गस्य कवाटः।
श्रीनगरं> जम्मुकाश्मीरे सोनामार्गनगरं प्रति आसंवत्सरं सुगमसञ्चारसाध्यः भौमान्तर्मार्गः प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिने उद्घाटितः। सोनामार्ग-गगनगिरि सुरङ्गमार्गस्य ६. ५ कि मी दूरमस्ति।
२७०० कोटिरूप्यकाणां व्ययेन निर्मितः अयं युगलपङ्क्तिमार्गः कस्मिन्नपि प्रतिकूलपर्यावरणे उपयोक्तुं शक्यते। २०१५ तमे वर्षे अस्य निर्माणमारब्धम्।