वैदिकगणभारतस्य संस्थापकाय ‘श्रीवत्स’ देशराजाय आचार्यवशिष्ठसम्मानः प्रदास्यते।
भारतीय-ज्ञानविज्ञानस्य ऋषिपरम्परायाः च संरक्षणे संवर्द्धने च अतिशययोगदानं करोति वैदिकगणभारतस्य संस्थापकः अध्यक्षः च ‘श्रीवत्स’ देशराजः। सः सिरमौरकलासंगमेन २८ जून २०२५ तमे दिने आचार्यवशिष्ठसम्मानेन सम्मानितः भविष्यति।
संस्कृतक्षेत्रे अद्वितीयं योगदानम्
मूलतः हिमाचलप्रदेशस्य लघुकाश्यां (छोटी काशी मण्डी) स्थितः ‘श्रीवत्स’ देशराजः भारतीयसंस्कृतेः वेदानाम् उपनिषदां च प्रचारप्रसाराय महान्तं प्रयासं कृतवान्। तेन संस्कृतभाषायाः ज्ञानविज्ञानस्य च संवर्धनाय वैदिकगणभारतस्य संस्थानं स्थापितम्, तेन माध्यमेन सः युवानां भारतीयदर्शनेन सह सम्बद्धतां वर्धयति।
सिरमौरकलासंगमस्य प्रशंसनीयः प्रयासः
सिरमौरकलासंगमः भारतीयकलायाः संस्कृतेः च संवर्द्धनाय समर्पितं प्रसिद्धं संस्थानम् अस्ति। प्रतिवर्षं तेन अस्मिन् क्षेत्रे अद्वितीयं योगदानं कुर्वन्तः विद्वांसः सम्मान्यन्ते।
आचार्यवशिष्ठसम्मानस्य उद्देश्यं भारतीयज्ञानपरम्परायाः पुनरुज्जीवनं तथा लोकेषु संस्कृतभाषायाः दर्शनस्य च महत्वस्य परिचयकरणं च भवति, समाजं संस्कृतभाषायाः दर्शनस्य च महत्वेन परिचितं करणं च अस्ति।
श्रीवत्सदेशराजस्य सम्मानस्य घोषणा सम्पूर्णे हिमाचलप्रदेशे संस्कृतविदुषां मध्ये हर्षं उत्साहं च वितरतः। एषः सम्मानः न केवलं तस्य परिश्रमस्य फलम् अपि तु संस्कृतभाषायाः संरक्षणाय युवा वर्गं प्रेरयिष्यति।
श्रीवत्सदेशराजाय समर्पितेयं सम्मानस्य घोषणा सम्पूर्णे हिमाचलप्रदेशस्थविदुषां समाजे महदुत्साहं वितरति। न केवलं सम्मानोऽयम् अमुष्य परिश्रमपरिपाकः अपि तु समस्ते देशे संस्कृतभाषायाः प्रसाराय प्रचाराय च प्रयतमानानाम् आधुनिकयुवकानां कृते आदर्शः एव। अयं सम्मानसमारोहः भारतीयसंस्कृतेः ऋषिपरम्परायाः च गौरवपूर्णं स्मरणं स्मारकम् भविष्यति।