हमासेन चतस्रः महिलाः शनिवासरे विमोचयिष्यन्ते।
जरुसलेमः> इस्रायेलेन सह कृतस्य युद्धविरामसन्धेः अंशतया हमासेन बन्धिताः चतस्रः महिलाः शनिवासरे विमोचिताः भविष्यन्ति। हमासेन निगदितमिदं वृत्तान्तम्। तस्य स्थाने पलस्थीनीयाः बन्धिताः इस्रायेलेन विमोचयिष्यन्ते। विशदांशाः न लब्धाः।
रविवासरे प्रवृत्तिपथमागतं सन्धिमनुसृत्य तिस्रः महिलाः हमासेन, ९० पालस्थानीयाः इस्रायेलेन च परस्परं प्रतिप्रेषिताः आसन्। युद्धविरामसन्धेः प्रथमसोपाने ३३ बन्धितान् हमासः १९०० पालस्थानीयान् इस्रयेलश्च विमोचयिष्यति।