जस्टिन् ट्रूडो त्यागपत्रं समार्पयत्।
ओट्टाव> राष्ट्रे स्वकीये राजनैतिकदले च अनभिमतः कानडायाः प्रधानमन्त्री जस्टिन् ट्रूडो त्यागपत्रं समार्पयत्। शासनदलस्य 'लिबरल् पार्टी' इत्यस्य नेतृस्थानमपि सः त्यक्तवान्। परन्तु नूतनाधिकारिणः चयनं यावत् सः द्वयेSपि अधिकारस्थाने अनुवर्तिष्यते।
२०१३ तमे वर्षे लिबरल् पार्टेः अध्यक्षस्थानं २०१५तमे प्रधानमन्त्रिस्थानं च प्राप्तवान् ट्रूडो आरम्भकाले जनप्रियनेता आसीत्। किन्तु अधिनिवेशविषयमधिकृत्य समीपकाले उद्भूताः वाससमस्याः अन्ये प्रादेशिकविषयाश्च तमनभिमतमकुर्वन्। खलिस्थानीयभीकरः हर्दीप सिंह निज्जरः इत्यस्य हत्याप्रकरणे अपि भारतेन सह कानडायाः सम्बन्ध अपि अभद्रः वर्तते।