OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 13, 2025

 कुम्भमेलायाः इतिवृत्तम् 


विशेष लेखः -  डा.रुरुकुमारमहापात्रः

 पुराणेतिहासविभागे अध्यापकः

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः 

कुम्भमेलाविषयोपक्रमः -

     कुम्भमेला भारते आयुज्यमाना एका विशालमेला भवति, यस्मिन् प्रयाग-हरिद्वार-उज्जैन-नाशिक-स्थानेषु कस्मिंश्चित् स्थाने प्रत्येकेषु द्वादशवर्षेषु यथास्थानं यथाकालं कोटिशः भक्ताः एकत्रिताः भूयो गङ्गानद्यां पवित्रस्नानं कुर्वन्ति । प्रत्येकस्मिन् द्वादशवर्षे चाऽपि प्रयागे द्वयोः कुम्भपर्वणोः मध्ये षड्वर्षाणां व्यवधानेन तंत्र अर्धकुम्भोऽपि आयुज्यते । २०१३ तमस्य वर्षस्य कुम्भस्य समाप्तेरनन्तरं २०१९ तमे वर्षे प्रयागे पुनरेकार्धकुम्भमेलायाः आयोजनं विहितम् । अधुना २०२५ तमे वर्षे पुनरपि एकमहाकुम्भमेलायाः आयोजनं क्रियते ।

    ज्योतिषगणनानुसारम् इयं मेला पौषपूर्णिमादिने आरभ्यते तथा च मकरसङ्क्रान्तौ एतस्या मेलाया विशेषज्योतिषोत्सवः परिकल्प्यते यदा सूर्यचन्द्रौ वृश्चिकराशिं प्रविशतः,बृहस्पतिश्च मेषराशिं प्रविशतीति । मकरसङ्क्रान्तौ घटितः अयं योगः कुम्भस्नानयोग: इति कथ्यते । इयं कुम्भमेला क्रमेण प्रयाग,हरिद्वार,नासिक,उज्जैन इत्यादिषु स्थानेषु प्रत्येकेषु चतुर्वर्षेषु एकैकवारम् आयोजिता भवति । कुम्भस्नाने निम्नोक्ताः विशेषदिवसाः भवन्ति । तद्यथा - पौषपूर्णिमा,मकरसङ्क्रान्तिः,मौनी अमावस्या,वसन्तपञ्चमी,माघी पूर्णिमा एवञ्च महाशिवरात्रिरिति । कुम्भस्नानयोगदिवसः अतीव शुभः मन्यते । यतः अस्मिन् दिने पृथिव्याः उच्चक्षेत्रद्वाराणि उद्घाट्यन्ते,अतः अस्मिन् दिने स्नानं शुभमिति विश्वासः प्रवर्तते । एवम्प्रकारेण स्नानं कृत्वा मानवात्मा सहजतया उच्चतरक्षेत्राणि प्राप्तुमर्हति । अत्र स्नानं नाम स्वर्गस्य दर्शनमिति विश्वस्यते ।

     कुम्भः, पुं, कुं भूमिम् उम्भति जलेन इति । उन्भ + अच् । शकन्ध्वादित्वात् साधुः । घटः । अस्य परिमाणं कलसशब्दे द्रष्टव्यम् । 'कुम्भः' इत्यस्य शाब्दिकार्थः घटः,कलशः,पात्रश्चेति शब्दकोशकाराणां मतं वरीवर्तते । वैदिकग्रन्थेष्वपि एवमर्थः प्राप्यते । प्रायः जलमिति पौराणिककथासु अमृतत्वं (अमृतम्) इति निगदितमस्ति । मेलाशब्दस्य अर्थः एकस्मिन् स्थाने समागमः,एकत्र गमनम्,समागमः अथवा विशेषतः उत्सवे समेषाम् उपस्थितिरिति निगद्यते । अयं शब्दः ऋग्वेदादिषु प्राचीनहिन्दुग्रन्थेषु अपि दृश्यते । एवं कुम्भमेला नाम अमरत्वस्य मेला इत्यर्थः ज्ञायते विद्वद्भिः सप्रश्रयम् ।

कुम्भमेलाया ज्योतिषशास्त्रीयमहत्त्वम् -

    पौराणिकप्रत्ययः यत्किमपि भवतु नाम, ज्योतिषकाणां मते कुम्भमेलायाः असाधारणं महत्त्वं वरीवर्तते ‌। कुम्भमेलायाः सम्बन्धस्तावत् बृहस्पतेः कुम्भराशौ प्रवेशनेन तथा सूर्यस्य मेषराशौ प्रवेशनेन साकं वरीवर्तते । ग्रहाणां स्थितिः हरिद्वारतः प्रवहन्त्या गङ्गायाः तटे स्थिते हरकी पौरी इत्यत्र गङ्गाजलं औषधीयं करोति तथा च तेषु दिनेषु अमृतसदृशं कारयति । अत एव अत्र लक्षशः भक्ताः पवित्रस्नानार्थं स्वात्मशुद्ध्यर्थञ्च आगच्छन्ति । आध्यात्मिकदृष्ट्या अर्धकुम्भकाले ग्रहाणां स्थितिः एकाग्रतायाः ध्यानस्य च कृते उत्तमा सन्तिष्ठते। यद्यपि सर्वाणि हिन्दुपर्वाणि समानादरपूर्वकं भक्त्या च आचर्यन्ते,तथापि कुम्भमेला अर्धकुम्भमेला इत्येतयोः कृते अत्र आगच्छतां पर्यटकाणां संख्या सर्वाधिका जायते ।

कुम्भमेलागतपौराणिककथा - सागरमन्थनवार्ता -

    कुम्भोत्सवस्य विषये द्वित्राः पौराणिककथाः प्रचलन्ति,येषु अत्यन्तं स्वीकृता कथा भवति यत् - समुद्रमथनात् देवदानवैः प्राप्तस्य अमृतकुम्भस्य अमृतबिन्दवः पतन्तः आसन् । अस्याः कथायाः अनुसारं यदा महर्षिदुर्वाससः शापात् इन्द्रादय देवाः दुर्बलाः अभवन्,तदा राक्षसाः देवानामुपरि आक्रमणं कृत्वा तान् पराजितवन्तः । अथ सर्वे देवाः मिलित्वा विष्णोः समीपे गत्वा तस्मै कथां सर्वां निवेदितवन्तः । ततो भगवान् विष्णुः अमृतस्य निष्कासनार्थं क्षीरसागरस्य मथनं राक्षसैः साकं मिलित्वा कुर्वन्त्विति देवान् उपदिष्टवान् । विष्णुभगवद्वचनं श्रुत्वा सर्वे देवा राक्षसैः साकं मिलित्वा सागरमन्थनपूर्वकम् अमृतनिष्कासनाय प्रयत्नशीला अभवन् । अमृतघटस्य बहिरागमनमात्रेण देवानाम् आज्ञानुसारं इन्द्रस्य पुत्रः जयन्तः अमृतघटं वहन् आकाशं प्रति उड्डीतवान् । तदनन्तरं राक्षसगुरुशुक्राचार्यस्य आज्ञानुसारं राक्षसा जयन्तात् पुनः अमृतं प्राप्तुं तमनुसृत्य बहुप्रयत्नेन मध्यमार्गे तं गृहीतवन्तः। तदनन्तरं अमृतघटस्य नियन्त्रणं प्राप्तुं द्वादशदिनानि यावत् देवदानवयोः निरन्तरयुद्धं प्रावर्तत । अस्मिन् परस्परयुद्धे पृथिव्यां प्रयाग,हरिद्वार,उज्जैन,नाशिक् इति चतुर्षु स्थानेषु तस्मात् अमृतकुम्भात् अमृतबिन्दवः पतिताः अभवन् । तस्मिन् समये चन्द्रः घटं स्रवणात् रक्षति स्म,सूर्यः तं विस्फोटनात् रक्षति स्म,बृहस्पतिः तम् अमृतकुम्भं राक्षसानाम् अपहरणात् रक्षति स्म तथा शनिश्च देवेन्द्रस्य भयात् रक्षति स्म । विवादस्य निराकरणाय ईश्वरः मोहिनीरूपं स्वीकृत्य सर्वेभ्यः अधिकारानुसारम् अमृतं वितरितवान् । एवं देवदानवयोः युद्धं समाप्तम् । अमृतप्राप्त्यर्थं द्वादशदिनानि देवदानवयोः निरन्तरयुद्धमभूत् । देवानां द्वादशदिनानि मनुष्याणां द्वादशवर्षाणि भवन्ति । तेन द्वादश कुम्भाः अपि भवन्ति । तेषु चत्वारः कुम्भाः पृथिव्यां सन्ति । शेषाः अष्टौ कुम्भाः देवलोके भवन्ति । यत्केवलं देवा एव प्राप्तुमर्हन्ति,मनुष्याणां तत्र प्रवेशो नास्ति । यस्मिन् यस्मिन् काले चन्द्रसूर्यादिग्रहाः तस्य अमृतकुम्भस्य रक्षणं कृतवन्तः तस्मिन् तस्मिन् काले कुम्भयोगः भवति एवं तदा तदा कुम्भमेलाया आयोजनञ्च सम्भावितमस्ति ।


२०२५ तमवर्षे प्रयागराजे महाकुम्भमेला -

    २०२५ तमस्य वर्षस्य महाकुम्भमेला उत्तरप्रदेशस्य प्रयागराजस्य त्रिवेणीसङ्गमे १३ जनवरी २०२५ दिनाङ्कतः आरभ्य २६ फरवरी २०२५ दिनाङ्कपर्यन्तं नाम ४४ दिवसान् यावत् प्रचलिष्यति । अस्याः कुम्भमेलाया आयोजनं हिन्दुधर्मे एकं महत्त्वपूर्णमायोजनमस्ति यत् प्रत्येकेषु द्वादशवर्षेषु एकवारमायुज्यते । यत् राक्षसानामुपरि देवानां विजयोत्सवरूपेणापि परिपाल्यते ।

 १. आगन्तुकानामपेक्षा महत्त्वञ्च -

    इयं कुम्भमेला प्रायः ४० कोटिपरिमितान् आगन्तुकान् आकर्षयिष्यतीति अनुमानितमस्ति । तथा च प्रयागराजस्य पार्श्वस्थितेषु हरिद्वार,उज्जैन,नासिक इत्यादिषु बहुषु स्थानेषु एतस्य उत्सवस्य आयोजनं भविष्यतीति आशास्यते । अमृतार्थं देवदानवयोः द्वादशवर्षयुद्धस्य सन्दर्भं स्मारयित्वा प्रत्येकेषु द्वादशवर्षेषु एका महाकुम्भमेला आयोजिता भवति ।

 २. स्वच्छता तथा स्वास्थ्यसेवा -

     अस्यां प्रयागराजकुम्भमेलायां प्रत्येकेषु दशशौचालयेषु एकेन परिमार्जकेण सह उच्चस्वच्छतामानकानां पालनं कृतमस्ति । तथा च महिलानां बालकानाञ्च कृते विशेषसेवाभिः सह व्यापकचिकित्सासेवापि सुनिश्चिता वर्तते । ४०७ वैद्यैः साकं ७०० "पैरामेडिकल" कर्मचारिणामपि सुव्यवस्था अस्थायिकेन्द्रीयचिकित्सालयस्थापनपूर्वकं परिकल्पिताऽस्ति । 

 ३. परिवहनम्  आधारभूतसंरचना च -

    भारतीयरेलनिगमेन कुम्भमेलानगरं गच्छतां तीर्थयात्रिकाणां कृते प्रमुखरेलयानेषु अतिरिक्तप्रकोष्ठैः सह सम्यक् सुव्यवस्थिता रेलसेवा विहिताऽस्ति । अस्मिन् कार्यक्रमे उन्नतानि अग्निशामकवाहनानि,नदीपरिष्करणोपक्रमाः, AI-उपकरणाः,उपस्थितानां सहायार्थं Chatgpt,Chatboat प्रभृतयः आधुनिककौशलोपकरणाश्चापि बहुशो दृश्यन्ते । एवम्प्रकारेण अत्र ८३ परियोजनासु १४२८.६८ कोटिरूप्यकाणां कुलनिवेशः सङ्कल्पितोऽस्तीति ज्ञायते ।

 ४. महत्त्वपूर्णाः तिथयः समयसारणी च -

     अस्यां कुम्भमेलायां पौषपूर्णिमा,मकरसङ्क्रान्तिरित्यादीनां हिन्दुमहोत्सवानामाधारेण राजस्नानानां कृते महत्त्वपूर्णाः तिथयः निर्दिष्टाः सन्ति । कार्यक्रमाः इमे हरिद्वार,प्रयागराज,नासिक,उज्जैन प्रभृतिषु पुण्यस्थानेषु समायोजिताः सन्ति । तदा तदा तत्र तत्र निर्दिष्टा महोत्सवाः तथैव विशिष्टग्रहतारकाणां स्थित्यनुरूपं परिपालयिष्यते ।

 ५. अतिरिक्तमुख्यविषयाः -

 मुख्यकार्यक्रमान् अतिरिच्य अस्यां प्रयागराजकुम्भमेलायां छायाचित्रप्रदर्शनी, मार्गदर्शितपक्षिप्रेक्षणं, शैक्षिककार्यक्रमाः, विशेषज्ञवार्ताश्चेत्यादिभिः सांस्कृतिककार्यक्रमैः पारिस्थितिकपर्यटनानां विशेषप्रचारः प्रसारश्च भविष्यति ।

 ६. प्रौद्योगिकी समर्थनम् -

       "महाकुम्भमेला २०२५ एप्" इति नामकधारकम् एकं एप् घाटमन्दिरादीनां महत्त्वपूर्णस्थानानां सूचनां प्रदातुमुपस्थितानां सम्यक् सहायतां करिष्यति तथा पर्यटकानां तीर्थयात्रिकाणाञ्च समग्रानुभवं वर्धयिष्यतीति निश्चप्रचम् ।

 ७. बाह्यमान्यता -

  अस्याः कुम्भमेलाया महत्त्वं वैश्विकरूपेण स्वीकृतमस्ति । अत्र विभिन्नदेशेभ्यः गण्यमान्यजनाः समुपस्थिता भविष्यन्ति,येन सांस्कृतिकाध्यात्मिकवैविध्यानां समग्रप्रतिनिधित्वं सुनिश्चितं सम्भविष्यति । 

सन्दर्भाः -

१. "कुंभ मेला के पीछे ये हैं ज्योतिषीय और पौराणिक कारण". Jagran blog. अभिगमन तिथि 2021-12-12.

२.admin, Manish (2021-01-26). "कुम्भ मेला (Kumbh Mela) इतिहास महत्व और आयोजन". राधे राधे (अंग्रेज़ी में). अभिगमन तिथि 2021-01-29.

३."संग्रहीत प्रति". मूल से 27 अक्तूबर 2015 को पुरालेखित. अभिगमन तिथि 17 नवंबर 2015.

 ४."संग्रहीत प्रति". मूल से 18 नवंबर 2015 को पुरालेखित. अभिगमन तिथि 17 नवंबर 2015.

 ५."संग्रहीत प्रति". मूल से 30 अक्तूबर 2015 को पुरालेखित. अभिगमन तिथि 17 नवंबर 2015.

६.Maclean, Kama (2008-08-28). Pilgrimage and Power: The Kumbh Mela in Allahabad, 1765-1954 (अंग्रेज़ी में). OUP USA. आई॰ऍस॰बी॰ऍन॰ 978-0-19-533894-2.

 ७."संग्रहीत प्रति". मूल से 16 जुलाई 2015 को पुरालेखित. अभिगमन तिथि 15 जुलाई 2015.