कर्षकनेतुः निराहारे परिहारः आवश्यकः - सर्वोच्चन्यायालयः।
नवदिल्ली> पञ्चाब-हरियानसीमायां १८ दिनानि यावत् अनशनान्दोलनं क्रियमाणस्य कृषकनेतुः विषये परिहारप्रक्रियाः अवलम्बनीयाः इति सर्वोच्चन्यायालयेन केन्द्रसर्वकारं पञ्चाबसर्वकारं च आदिष्टम्। पञ्चाबस्य कृषकनेता जगजीत सिंह दल्लेवालः खनोरिसीमायां नवम्बर् २६ तमदिनाङ्कतः अनशनान्दोलनं क्रियमाणस्य प्राणाः अमूल्याः इति न्यायाधीशौ सूर्यकान्तः उज्जल् भूमनः च निगदितवन्तौ।