अर्बुदरोगनिरोधकं वाक्सिनः रष्येण निर्मितः । 2025 तमे वर्षे निःशुल्कं वितरणं भविष्यति।
अर्बुदरोगनिरोधकं वाक्सिनम् आविकृतमिति रष्यस्य स्वास्थ्यमन्त्रालयेन घोषितम्। अर्बुदरोगं विरुद्ध्य एम्-आर्-एन्-ए वाक्सिनं निर्मितमिति विज्ञापनं कृतम्। रष्यस्य स्वास्थ्य-मन्त्रालयाधीनस्य रडियोलजी मेडिकल् रिसर्च् केन्द्रस्य सामान्यनिदेशकः आन्द्रियः कप्रिनः इत्यनेन एतद्विषये सूचितम्। वाक्सिनं 2025 तमे वर्षस्य आरम्भे एव रोगिणः प्रति निःशुल्कं वितरिष्यते इति घोषणं कृतम्। अर्बुदरोग-वाक्सिनानां शीघ्रं विकासं भविष्यति इति रष्यस्य राष्ट्रपतिना व्लादिमीर पुतिनेन पूर्वं ज्ञापितम्।