मुहम्मद अल् बषीरः सिरियायाः संरक्षकप्रधानमन्त्री। मुहम्मद अल् बषीरः।
डमास्कसः> राष्ट्रपतिं बाषर् अल् असदं निष्कास्य शासनग्रहणं कृतवन्तः विमतपक्षीयाः मुहम्मद अल् बषीरं सिरियायाः संरक्षकप्रधानमन्त्रिरूपेण [Care taker PM] नियुक्तवन्तः। २०२५ मार्च् १ पर्यन्तं तस्य कार्यकालः भवति।
विमतानां नेतृत्वमावहतः एछ् टि एस् इत्यस्य नियन्त्रणे इड्लिबं प्रशासमाने सालवेषन् सर्वकारे प्रधानमन्त्री भवति ४९ वयस्कः मुहम्मद अल् बषीरः। तन्त्रज्ञः एषः इड्लिब विश्वविद्यालयात् 'शरीयत्' नियमे बिरुदधारी भवति।