मन्मोहनसिंहस्य अन्त्येष्टिकर्माणि अद्य।
अनुशोच्य लोकनेतारः राष्ट्रनेतारश्च।
राष्ट्रे साप्ताहिकम् औद्योगिक दुःखाचरणम्। राष्ट्रपतिः द्रौपदी मुर्मू मन्मोहनसिंहस्य भवनं प्राप्य आदराञ्जलिं समर्पयति।
नवदिल्ली> गुरुवासरे रात्रौ दिवंगतस्य भारतस्य पूर्वप्रधानमन्त्रिणः मन्मोहनसिंहस्य अन्त्येष्टिकर्माणि अद्य प्रभाते एकादशवादने दिल्ल्यां यमुनातीरस्थे निगमबोधघट्टे सम्पत्स्यते।
श्वासकोशानुबन्धरोगेण दिल्ली एयिंस् आतुरालये परिचर्यायां सन्तः मन्मोहनसिंहस्य अन्त्यसमये पत्नी गुर् शरणकौर्, अपत्यानि उपीन्दरः, दमनः, अमृता , कोण्ग्रसदलस्य नेत्री प्रियङ्कागान्धी च समीपमासन्।
अद्य कोण्ग्रस् दलस्य राष्ट्रियास्थाने सामाजिकदर्शनानन्तरं मन्मोहनसिंहस्य अन्त्यक्रियाः सम्पत्स्यते। राष्ट्रे सर्वत्र साप्ताहिकम् औद्योगिक दुःखाचरणं विहितम्। अद्य मध्याह्नं यावत् केन्द्रीय-राज्यसर्वकारसंस्थानां कृते विरामः प्रख्यापितः।