दिसनायके-नरेन्द्रमोदी मेलनं सम्पन्नम्।
विविधमण्डलेषु परस्परसहयोगवर्धनाय निर्णयः।
नवदिल्ली> श्रीलङ्कायाः राष्ट्रपतिः अनुर कुमार दिसनायकः भारतस्य प्रधामन्त्रिणं नरेन्द्रमोदिनं सोमवासरे सम्मिलितवान्। राष्ट्ररक्षा ऊर्ज व्यापार समुद्रगतागत डिजिटल मण्डलेषु परस्परसहयोगं संवर्धयितुं उभयोरपि राष्ट्रनेतारयोः मध्ये सम्मतिः जाता।
रामेश्वरात् तलैमान्नारं प्रति यन्त्रनौकासेवाम् आरब्धुं निश्चिकाय। धीवराणां प्रकरणेषु मानविकमूल्ययुक्तं व्यवहारं स्वीकरिष्यति।
दिल्ल्यां हैदराबादभवने सम्पन्नस्य मेलनानन्तरं कृते पत्रकारमेलने भाविनी मार्गरेखा उभाभ्यां राष्ट्राभ्याम् अङ्गीकृतमिति निगदितम्।