सर्वभाषाकविसम्मेलने संस्कृतस्य प्रातिनिध्यं व्यदधात् युवकवि: भट्टराईयुवराज:
वार्ताहर:- कुलदीपमैन्दोला।
ऐषमो दिसम्बर-एकोनविंश्यां प्रसार-भारती-समवायस्य मुम्बाय्या: आकाशाणीकेन्द्रस्य आयोजकत्वे दिसम्बरे एकोनविंश्यां गुरुवासरे सर्वभाषा- कवि-सम्मेलनम् अनुष्ठितम्। ध्येयम् अस्ति यदेतत् सर्वभाषाकविसम्मेलनम् विश्वस्मिन्नपि विश्वे बृहत्तमं कविसम्मेलनं वर्त्तते, यद्धि "गिनिज बुक ओफ् वर्ल्ड रिकॉर्ड" इत्यत्र समङ्कितम् अस्ति। अस्मिन् भव्ये दिव्ये सभ्ये च कविसम्मेलने समवाप्तसाहित्याकादेमीयुवपुरस्कार: डॉ. युवराज: भट्टराई संस्कृत-कवित्वेन आमन्त्रितो भूत्वा संस्कृतमातु: गुणगौरवं प्रास्तौत्। अवधेयम् अस्ति यत् भट्टराईमहोदयस्य गणना आधुनिकेषु संस्कृतकविषु अन्यतमत्वेन विधीयते। अमुना देशस्य विविधेषु राष्ट्रियेषु अन्ताराष्ट्रियेषु च कविसम्मेलनेषु
संस्कृतम् अतिरिच्य हिन्दीकविसम्मेलनेषु अपि निजप्रतिभाया: प्रदर्शनं कृतम् अस्ति। अस्य काव्यानुष्ठानस्य आयोजनं नवीमुम्बय्या: वाशी-मध्ये स्थितस्य साहित्य-मन्दिर-सभागृहस्य बृहत्तमे सभागारे कृतम्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण मुम्बयीविश्वविद्यालयस्य हिन्दीविभागस्य अध्यक्ष: वरिष्ठ: आचार्य: प्रो. करुणाशङ्करः उपाध्याय: उपस्थित: आसीत्।विशेषत:, अस्मिन् समारोहे तेषां गरिमामय्याम् उपस्थितौ काव्यपाठं कृत्वा सर्वेपि कवय: आत्मानं भाग्यशालिनम् अनुभवन्त: आसन्।
युगपदेव, भट्टराईवर्य: प्रावोचत् यद् अवसरोSयम् मत्कृते अविस्मरणीय: अभवत् यतोहि अहं स्वीय-समकालिकै: विविध-भाषाणां कविमित्रै: साकं मेलितुमपि प्राभवम्, तै: समं सम्भाषणम् आचरितवान्। कविमित्रैः सह व्यतियापितानि पलानि मम कृते बहुमूल्यानि वर्तन्ते ।
एतस्य महत: सारस्वतानुष्ठानस्य विश्वस्तरीया भव्यता दिव्यता महत्ता च समेषां विदितमेव। एतस्मिन् कार्यक्रमे आराष्ट्राद् आहत्य त्रयोविंशतिमिता: मूलकवय: त्रयोविंशतिमिता: च आनुवादककवय: सहभागं कृतवन्त:। तत्र हि विशिष्य च महाराष्ट्रस्य संस्कृतानुरागिभि: श्रोतृजनैः साकं समिल्ल्य तेषां पुरत: काव्यस्य प्रस्तवनं च कृत्वा सर्वेSपि कवय: आनन्दातिरेकेण हर्षोतफुल्ला: जाता:। आकाशवाण्या: आयोजकमण्डलस्य संस्कृतं प्रति निष्ठया, संस्कृतम्प्रति सद्भावेन च कवीनां हृदयं सुतरां स्पृष्टम्।