महाराष्ट्रे फड्नविसः मुख्यमन्त्री; अद्य शपथसमारोहः। देवेन्द्र फड्नविसः।
मुम्बई> महाराष्ट्रे दशदिनात्मकस्य राजनैतिकानिश्चितत्वस्य विरामः। भा ज पा नेता देवेन्द्र फड्नविस् इत्यस्य नेतृत्वे नूतनसर्वकारः गुरुवासरे अधिकारं प्राप्स्यति। आसाद् क्रीडाङ्कणे सायं सार्धपञ्चवादने शपथसमारोहः भविष्यति।
शिवसेना नेता भूतपूर्वमुख्यमन्त्री च एकनाथ षिन्डे, एन् सि पि नेता अजित पवारः च उपमुख्यमन्त्रिणौ भविष्यतः।
५४ वयस्कः देनेन्द्र फड्नविसः तृतीयवारमेव महाराष्ट्रस्य मुख्यमन्त्रिपदमारोहति। ह्यः प्रवृत्ते भाजपासदस्यानां मेलने सः विधानसभानेतृरूपेण चितः।