त्रिदिवसीयसन्दर्शनाय श्रीलङ्काराष्ट्रपतिः भारतं प्राप्तवान्। भारतं प्राप्तं श्रीलङ्काराष्ट्रपतिं अनुर कुमार दिसनायके वर्यं [वामे] केन्द्रमन्त्री एल् मुरुगः स्वीकरोति।
नवदिल्ली> दिनत्रयात्मकसन्दर्शनाय श्रीलङ्कायाः राष्ट्रपतिः अनुर कुमार दिसनायके वर्यः ह्यः सायं भारतं प्राप्तवान्। सेप्तम्बरमासे राष्ट्रपतिरूपेण चयनानन्तरं प्रथममेव तस्य भारतसन्दर्शनम्। केन्द्रमन्त्री एल् मुरुगः नयतन्त्राधिकारिणः च मिलित्वा तं स्वीकृतवन्तः।
राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी इत्यादिभिः सह तस्य मेलनं भविष्यति। दिसनायकेन सह श्रीलङ्कायाः विदेशकार्यमन्त्री उप वित्तकार्यमन्त्री च तमनुगच्छतः।