न्याय. यादवाय वाग्दण्डः। न्याय.शेखरकुमार यादवः।
नवदिल्ली> विश्वहिन्दुपरिषदः कार्यक्रमे इस्लामविभागं विरुध्य विवादपरामर्शं कृतवते अलहबाद उच्चन्यायालयस्य न्यायमूर्तिः शेखरकुमार यादव इत्यस्मै सर्वोच्चन्यायालयस्य न्यायाधिपवृन्देन प्रबोधनपूर्वकः वाग्दण्डः विहितः। न्यायमूर्तिपदस्य आभिजात्यं परिपालयितव्यमिति यादवः उपदिष्टः। सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः सञ्जीव खन्नः इत्यस्य नेतृत्वे पञ्चाङ्गयुक्तेन न्यायमूर्तिवृन्देनैव प्रबोधनात्मकः उपालम्भः विहितः।