डिङ्क डिङ्क नाम नूतनरोगबाधया ३०० अधिकजनाः चिकित्सायां वर्तन्ते।
उगाण्ड देशे डिङ्क डिङ्क नाम रोगः सर्वत्र प्रसरति। त्रिसहस्राधिकाः (३००) जनाः रोगस्य चिकित्सायां वर्तन्ते इत्यस्ति प्रतिवेदनम्। बण्डिबुग्यो नाम जनपदे बहवः रोगिणः परिचर्यायां वर्तन्ते। स्त्रीषु बालिकासु च रोगः प्रसरति। ज्वरः, शरीरकम्पनम् इत्यादीनि रोगलक्षणानि भवन्ति। आन्टिबयोडिक् औषधानि एव इदानीं रोगशमनाय रोगिभ्यः दीयन्ते इति स्वास्थ्यमन्त्रालयाधिकारिणा डो. कियिट्टा क्रिस्टफर् महोदयेन उक्तम्।