आफ्रिकस्य फ्रान्स् -द्वीपः मयोट् चक्रवातेन धूलीकृतः ।
चक्रवातात् पूर्वम् - अनन्तरं च |
चिडो नाम चक्रवातेन फ्रान्स् राष्ट्रान्तर्गते मयोट्-द्वीपः धूलीकृतः। २०० कि.मी. वेगेन आसीत् वातवीचनम्। सर्वकारस्य कार्यालयानि, आतुरालयानि च भग्नानि। नारिकेलवृक्षाः मूलबन्धं विच्छित्य गृहाणाम् उपरि पतिताः। ९० संवत्सराणाम् अभ्यन्तरे जायमानेषु चक्रवातेषु घोरतमः भवति अयम्।
फ्रान्स् राष्ट्रस्य १८ मण्डलेषु एकः अस्ति मयोट्। ३९ कि.मी. दीर्घता, २२ कि.मी. आयतिः च अस्य अस्ति। यूरोप्-संयुक्तराष्ट्रान्तर्गतः दूरस्थदेशः भवति इति अस्य विशेषता। © https://www.samprativartah.in
सम्पादकस्य सूचना - वार्ताः यथेच्छं स्वीकरोतु । यथेच्छं प्रसारयतु । किन्तु प्रसारणे https://www.samprativartah.in इति अन्तर्जालसूत्रमपि निश्चयेन देयम् ।