अल्लु अर्जुनः निगृहीतः ; अविलम्बेन प्रातिभाव्यं च।
अद्य प्रभाते कारागारात् मुक्तिः।
अल्लु अर्जुनः। |
हैदराबादः> 'पुष्प २' इति चलच्चित्रस्य प्रथमप्रदर्शने जातेन जनसम्मर्देन युवती मृता इत्यस्मिन् प्रकरणे चलच्चित्रस्य नायकनटः अल्लु अर्जुनः हैदराबाद आरक्षकैः निगृहीतः तथापि तेलङ्काना उच्चन्यायालयस्य प्रातिभाव्यात् शनिवासरे प्रभाते विमोचितः।
प्रकरणेSस्मिन् नम्पिल्लि धर्माध्यक्षन्यायालयेन १४ दिनात्मककारागारवासः विहितः च। किन्तु होराणामाभ्यन्तरे तेलङ्कानस्य उच्चन्यायालयेन प्रातिभाव्यं विहितम्। चलच्चित्रस्य प्रथमप्रदर्शने अल्लु अर्जुनस्य सान्निध्यं तत्रासीदिति कारणेन मृत्योः उत्तरदायित्वं प्रथमदृष्ट्या तस्मै दातुं न शक्यते इति उच्चन्यायालयेन निरीक्षितम्।