एकराष्ट्रम्; एकनिर्वाचनं - विधेयकं संसदि अवतारितम्।
विधेयकं संयुक्तसमित्याः परिशोधनाय समर्पितम्।
नवदिल्ली> विपक्षदलानां प्रतिषेधे वर्तमाने एकराष्ट्रम्; एकनिर्वाचनम् इति विधेयकं लोकसभायां सर्वकारेण अवतारितम्। विपक्षस्य आवश्यमनुसृत्य मतदानप्रक्रियया एव अवतरणानुमतिः लब्धा। विधेयकावतरणमनुकूल्य २६९ सदस्याः, प्रतिकूल्य १९८ सदस्याश्च मतदानम् अङ्कितवन्तः।
केन्द्रनियममन्त्री अर्जुन मेघवालः विधेयकमवतारितवान्। विधेयकं संयुक्तसभासमित्यै [जे पि सि] समर्पणीयमिति आदेशः सर्वकारेण अङ्गीकृतः। सभाद्वयस्य अङ्गान् अन्तर्भाव्य सभापतिः जे पि सि समितिं रूपीकरिष्यति।