OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, December 2, 2024

 फेन्जलचक्रवातः न्यूनमर्दरूपेण परिवर्तितः।

दक्षिणभारते तीव्रवृष्टिसूचना। 

चेन्नै> तमिलनाट् पुतिश्शेरी प्रदेशेषु उग्रप्रतापेण वातः फेन्जलनामकः चक्रवातः स्थलं स्पृष्ट्वा न्यूनमर्दरूपेण परिवर्तितः। केरले विविधजनपदेषु अतितीव्रजागरूकता प्रख्यापिता। कर्णाटके अपि तीव्रवृष्टिः प्रोक्ता। 

  केरले सोमवासरे अतितीव्रवृष्टिः प्रोक्ता। मलप्पुरं, कोष़िक्कोट्, वयनाट्, कण्णूरु जनपदेषु रक्तजागरूकता प्रख्यापिता।  एरणाकुलं, इटुक्की, तृश्शूर्, पालक्काट्, कासरगोड जनपदेषु ओरञ्जजागरूकता च प्रख्यापिता।