वत्तिक्काने विश्वसर्वधर्मसंसद्।
श्रीनारायणगुरुसन्देशस्य अस्मिन् काले नितरां प्रसक्तिः - मार्पापावर्यः। विश्वसर्वधर्मसंसदि अनुग्रहभाषणं कृतवते मार्पापावर्याय शिवगिरिमठम् अध्यक्षः उपहारं समर्पयति।
वत्तिक्कान् सिटी> आविश्वं जनेषु, राष्ट्रेषु मिथः असहिष्णुतायां वर्धितायां श्रीनारायणगुरुसन्देशानां नितरां प्रसक्तिः अद्यत्वे अस्तीति फ्रान्सिस् मार्पापावर्यः उक्तवान्। शिवगिरिमठस्य नेतृत्वे वत्तिक्काने आयोज्यमाने विश्वसर्वधर्मसंसदि भाषमाणः आसीत् मार्पापावर्यः।
भारतस्य सामाजिकपरिष्कर्तृ-आध्यात्मिक-सन्न्यासिवर्येषु प्रमुखेन श्रीनारायणगुरुणा आलुवा अद्वैतश्रमे आयोजितस्य सर्वधर्मसम्मेलनस्य शताब्द्युत्सवस्य अंशतया वत्तिक्काने अगस्तीरियन् सभागारे आयोज्यमाने सम्मेलने विविधराष्ट्रेभ्यः १८० प्रतिनिधयः भागं गृह्णन्ति।