झार्खण्डे इन्डिया सख्यं विजयपदे।विजयाह्लादे हेमन्त सोरनः सहप्रवर्तकाश्च।
नवदिल्ली> झार्खण्ड मुक्ति मोर्चा [जे एम् एम्] दलस्य नेतृत्वे इन्डिया सख्यस्य झार्खण्डविधानसभानिर्वाचने महान् विजयः। आहत्य विद्यमानेषु ८१ स्थानेषु ५६ स्थानानि विजित्य सख्यमिदं प्रशासनस्य अनुस्यूततां प्राप।
विधानसभानिर्वाचनमालक्ष्य हेमन्त सोरन् सर्वकारेण विधत्ताः क्षेमपरियोजनाः एव इन्डिया सख्यस्य पुनःप्रशासनाय साह्यमभवदिति निरीक्षते। वर्तमानीनः मुख्यमन्त्री हेमन्त सोरन् पुनः मुख्यमन्त्री भविष्यतीति सूच्यते।