भारतस्य १०२ टण् मितं सुवर्णं राष्ट्रं प्रत्यानीतम्।
मुम्बई> विदेशे परिपालितात् सुवर्णसञ्चयात् १०२ टण् मितं सुवर्णमपि भारतीय रिसर्व बैङ्केन [आर् बी ऐ] राष्ट्रं प्रत्यानीतम्। 'बैङ्क् आफ् इङ्लण्ट्' मध्ये संरक्षितं सुवर्णमेव अतिसुरक्षासन्नाहेन भारते सुरक्षितस्थानेषु स्थापितम्।
आर् बी ऐ संस्थायाः अधीने इदानीं ८५५ टण् मितं सुवर्णसञ्चयः विद्यते। तस्मात् आहत्य ५१०. ५ टण् भारतं प्रत्यानीतम्। एतत्तु आहत्य वर्तमानस्य सुवर्णसञ्चयस्य ५९. ७% अस्ति। आगोलस्तरे विद्यमानानि युद्धादिप्रतिसन्धयः अनिश्चितत्वानि च सुवर्णसञ्चयस्य प्रत्यानयनस्य कारणं भवति।