OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 27, 2024

 विमानानि अनुस्यूततया बोम्बभीषायाम् 

सामाजिकमाध्यमानां प्रशासनस्य पूर्वसूचना। 

नवदिल्ली> विमानानि प्रति अनुस्यूततया जायमानान् बोम्बभीषासन्देशान् प्रतिरोद्धुं सामाजिकमाध्यमानां केन्द्रसर्वकारस्य 'इलक्ट्रोणिक्स् ऐ टि' मन्त्रालयस्य पूर्वसूचना। बोम्बभीषामधिकृत्य अन्वेषणस्य अंशतया अन्वेषणाभिकर्तृभिः अपेक्षिताः सूचनाः ७२ होराभ्यन्तरे दातव्याः। नो चेत् ऐ टि नियमस्य ७९ तमविभागानुसारं कल्पितस्य संरक्षणस्य अर्हता न भविष्यति। 

  मेटा, एक्स् इत्यादयाः सामाजिकमाध्यमाः अन्वेषणे सहकरणीयाः। अतीतेषु १२ दिनेषु २७५ भीषासन्देशाः जाताः। व्याजबोम्बभीषाप्रकरणेषु केवलं द्वावेव निगृहीतौ।