गुजरातप्रदेशे विषवातकस्य निर्गमनेन श्वासरोधेन ५ कर्मकराः मृताः।
गुजरातप्रदेशस्य कच्छनगरस्य इमामी अग्रोटेक् इति उद्योगशालायं विषवातकस्य निर्गमः अभवत्। अद्य प्रभाते एव दुर्घटना अभवत्। उद्योगशालायाः मालिन्यकूपस्य स्वच्छताकरणे सन्दर्भे एव विषवातकस्य निर्गमनं जातमिति अनुमन्यते। विषवातकस्य श्वसनेन मूर्छया पतितान् कर्मकरान् रक्षयन्तः श्रमिकाः अपि मृताः। मृतेषु एकः पर्यवेक्षकः अन्यः कूपसंचालकः च आस्ताम्।