OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 25, 2024

शशिकला-सुदर्शनपरिणयः 

(श्रीमद्देवीभागवते प्रोक्तः शशिकलासुदर्शनयोः परिणयवृत्तान्तः )

    पुरा एकदा काशिराजः सुबाहुः तस्याः कन्यायाः शशिकलायाः विवाहार्थमेकं स्वयंवरं आयोजितवान्। अस्मिन् प्रसङ्गे यथाशास्त्रं स्वयंवरमुद्दिश्य किञ्चिदालोचयामः। विद्वद्गणाः स्वयंवरः त्रिविधः इति प्रोक्तवन्तः। क्षत्रियाणां राज्ञां कृते स्वयंवरः उपयुक्तः न तु अन्येषां कृते। तद्यथा-

स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः।

राज्ञां विवाहयोग्यो वै नान्येषां कथितः किल॥

विद्वद्गणाः स्वयंवरः  त्रिविधः

इति प्रोक्तवन्तः। ते यथा क्रमशः १. इच्छास्वयंवरः २. *पणस्वयंवरः ३. शौर्यशुल्कस्वयंवरश्च भवन्ति। यथोक्तम्-

इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः ।

यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम् ॥

तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः ।

इच्छास्वयंवरं तत्र चकार नृपसत्तमः॥

     काशिराजः इच्छास्वयंवरमायोजितवान्। अर्थात् अस्मिन् स्वयंवरे कन्या इच्छानुसारं स्वयं तस्याः वरचयनं करोति। परन्तु पणस्वयंवरे किमपि पणः तिष्ठति। यथा भगवान् श्रीरामः जानक्याः स्वयंवरे शिवधनुः भङ्गीकृत्य जानकीं स्वस्य पत्नीरूपेण प्राप्तवान्। शिवधनुः अत्र पणः आसीत्। तृतीयः स्वयंवरः पृथ्वीराजविषये आसीत्। एवञ्च विवाहादिकं प्रचलति स्म। तथापि विवाहसमये किं के पश्यन्ति इति श्रुतिः वर्तते यथा-

कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।

बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥

      काशिराजः सुबाहुः स्वकन्यायाः शशिकलायाः तस्मिन् स्वयंवरे विभिन्नदेशदेशान्तराणां राज्ञां राजकुमाराणाञ्च निमन्त्रणं विहितवान्। परन्तु तत्सभां प्रति सुदर्शनस्य कृते निमन्त्रणं नासीत्। परन्तु शशिकला स्वयं सुदर्शनस्य पार्श्वे एकसंवादं प्रेषयित्वा सुदर्शनं निमन्त्रितवती। सुदर्शनोपि तत्रागतः। तत्र सभास्थले सुदर्शनं दृष्ट्वा प्रायशः राजानः तस्योपरि बहुलतया उपहासं कृतवन्तः। तद्यथा-

सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः ।

बलसैन्यविहीनश्च परित्यक्तस्तु बान्धवैः ।।

तथापि राजकन्या शशिकला तु केवलं भगवत्याः प्रियभक्तं सुदर्शनमेव स्वपतिरूपेण इच्छति स्म। परन्तु सुदर्शनेन साकं शशिकलायाः विवाहं कारयितुं तस्याः पिता सुवाहुः स्वीकृतिं न दत्तवान्। किन्तु शशिकला तस्याः निश्चये अटलासीत्। सुदर्शनादृते अन्यस्य कस्यापि सम्मुखे आगन्तुं शशिकला निराकृतवती। ततः स्वयंवरसभाङ्गणे निम्नोक्तप्रकारेण वार्तालापः प्राचलत्। तद्यथा-

मिलिता भूभुजः सर्वे त्वयाहूता: स्वयंवरे ।

कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति॥

      सा राजकन्या शशिकला स्यमातुः पितुश्च वार्तामपि अमान्यं कृतवती। बहुप्रयासानन्तरमपि शशिकलायाः मनसः परिवर्तने असमर्था भूत्वा राजा सुबाहुः स्वेच्छां परित्यज्य अन्ततो गत्वा सर्वेषां राज्ञां सम्मुखे स्वकन्यायाः शशिकलायाः निष्पत्तिं श्रावितवान्। शशिकलायाः सुदर्शनविषयकनिष्पत्तिं श्रुत्वा तत्र सभाङ्गणे उपस्थिताः प्रायशः सर्वे राजानः क्रोधजर्जरिताः अभवन्। तदनन्तरं ते सर्वेपि राजानः बाहुबलप्रतियोगितां कर्तुमुक्तवन्तः। तत्र यो विजयी भविष्यति स एव शशिकलया साकं विवाहं करिष्यतीति। पुन: शशिकलापार्श्वे गत्वा राजा सुबाहुः स्वयंवरधिया विवाहार्थं निवेदितवान्।   परन्तु शशिकला पुनरपि सम्मतिं न दत्तवती। तदनन्तरं शशिकला तस्याः पितुः सम्मुखे एकोपायमुक्तवती। हे पितृदेव! रात्रौ निर्जनकाले गुप्तस्थाने गत्वा तत्र सुदर्शनेन साकं मम विवाहं कारयतु। तदनन्तरं राजा सुबाहुः रात्रौ एकस्मिन् गुप्तस्थले वैदिकब्राह्मणद्वारा सुदर्शनेन साकं शशिकलायाः विवाहं कारितवान्। अनन्तरं एतत् वृत्तान्तं ज्ञात्वा स्वयंवरार्थं समुपागताः प्रायशः सर्वेपि राजानः क्रोधजर्जरिताः भूयः तत्र युद्धार्थमागताः। सुदर्शनेन  साकं ते सर्वे राजानः युद्धं कृतवन्तः। भगवत्याः कृपातः युद्धे सुदर्शनो विजयी अभवत्। तदनन्तरं भगवत्याः कृपातः विजयश्रीमण्डितः सुदर्शनः स्वनवविवाहितया पत्न्या शशिकलया सह तस्य राज्यं प्रति प्रस्थितवान्। एवम्प्रकारेण देवीभागवते शशिकलासुदर्शनयो: परिणयवृत्तान्तो वर्णितोस्ति॥

 [पणः - प्रतिज्ञा, बाजि लगाना, Stake, bate etc ]


लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः