जनसंख्यागणना २०२५ तमे वर्षे।
नवदिल्ली> भारते नूतनी जनसंख्यागणना [Census] आगामिवर्षे आरब्धुं निर्णयः कृत इति सूच्यते। २०२५ तमात् आरभ्य २०२६ तमे पूर्तीकर्तुम् उद्दिश्यते। साधारणरीत्या वर्षचतुष्टयस्य विलम्बः अभवत्।
जनसंख्यागणनानन्तरं लोकसभामण्डलानां पुनर्निर्णयस्य क्रियाविधयः 'डि लिमिटेशन् आयोगेन' आरप्स्यन्ते। २०२८ तमे वर्षे मण्डलपुनःक्रमीकरणं पूर्तीकृत्य २०२९ मध्ये लोकसभानिर्वाचनं विधातुमेव प्रशासनस्य चिन्ता इति सूच्यते। राष्ट्रस्य रजिस्ट्रार जनरल् पदीयः तथा सेनसस् कम्मीषणर् पदीयश्च मृत्युञ्जय कुमार नारायणः इत्यस्य कालपरिधिः २०२६ ओगस्ट् पर्यन्तं दीर्धीकृतः इति जनसंख्यागणनप्रवर्तनम् लक्ष्यीकृत्य इति अनुमीयते।