OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 8, 2024

कुम्भमेलनं पलास्तिककमुक्तं कर्तुं कृत्रिमबुद्धि-तन्त्रज्ञानं, ७०० वैद्युतिक-यानानि च; कुम्भमेलनस्य चिह्नं योगिना आदित्यनाथेन प्रकाशितम्।

    उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजे कुम्भमेलनस्य सिद्धीनाम् अवलोकनं कृतवान्। महाकुम्भः २०२५ इत्यस्य चिह्नं (logo) रविवासरे उदघाटयत्। तेन अन्तर्जालदृश्यपुटस्य तथा एप् सुविधयायाः अपि लोकार्पणं कृतम्। अपि च महोदयेन कुम्भमेलनस्य सिद्धीनां प्रगति: अधिकारिभिः सह चर्चिता, मुख्येषु स्थलेषु स्थलीयनिरीक्षणं च कृतम्। कुम्भमहोत्सवः २०२५ तमस्य जनवरी-मासस्य १४ दिनाङ्कात् फेब्रुवरी-मासस्य २६ दिनाङ्कपर्यन्तं

भविष्यति।

    भक्तानां संरक्षणार्थं कुम्भमेलनं पलास्तिकमुक्तं कर्तुं च कृत्रिमबुद्धि-तन्त्रज्ञानस्य उपयोगः करिष्यन्ते। भक्तानां सौकर्यार्थं ७०० वैद्युति-यानानि अपि तत्र नियोजयिष्यन्ति इति च मुख्यमन्त्रिणा उक्तम्।