भारतस्य विदेशकार्यमन्त्री श्रीलङ्काराष्ट्रपतिं सन्दृष्टवान्।
कोलम्बो> भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः श्रीलङ्कायाः राष्ट्रपतिना अनुर कुमार दिसनायकेन सह गतदिने मेलनं कृतवान्। उभयोरपि राष्ट्रयोः मिथः बन्धं सहयोगं च दृढीकर्तुमधिकृत्य चर्चा सम्पन्ना। श्रीलङ्कायाः आर्थिकपुनरुज्जीवनाय भारतस्य सहयोगः अनुवर्तिष्यते इति जयशङ्करः न्यवेदयत्।