OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 26, 2024

 प्राचार्य: प्रो.एम.सी.पाण्डे "श्री-के-एस-अय्यरसम्मानं" डॉ.दीपकखाती "वाणिज्यगौरवसम्मानं" प्राप्तवन्तौ 

वार्ताहर:-कुलदीपमैन्दोला।

    रामनगरम्> नैनीतालजनपदे रामनगरमहाविद्यालयस्य कृते विशिष्टदिवस: गौरवमय: आसीत् यस्मिन्दिवसे उत्तर-प्रदेशस्थे पीलीभीतस्थाने उपाधि-महाविद्यालये रामनगरस्थ-पी-एन-जी- राजकीय- स्नातकोत्तर-महाविद्यालयस्य प्राचार्य: प्रो.एम.सी.पाण्डे श्री-के-एस-अय्यरसम्मानं च वाणिज्यसंकायस्य सहायकप्राध्यापक: डॉ.दीपकखाती वाणिज्यगौरवसम्मानं च प्राप्तवन्तौ। उभाभ्यामपि सम्मानमिदम् उत्तरप्रदेशस्य पीलीभीतनगरस्थस्य वाणिज्य-सङ्काय-उपाधि- महाविद्यालयद्वारा द्विदिवसीय- अन्ताराष्ट्रियसङ्गोष्ठ्याम् अक्टूबरमासस्य पञ्चविंशतिदिनाङ्के प्रदत्तम् । 

    अस्मिन् समारोहे

अतिविशिष्टातिथिरूपेण प्राचार्यमहोदय: अवोचत् यत् अहम् अनेन सम्मानव्याजेन इतोप्यधिकमुत्कृष्टकार्यकरणाय उत्साहितो भविष्यामि। वाणिज्यविषये शोधार्थम् अध्यापनार्थं विशिष्टावदानार्थञ्च उक्तसम्मानं प्राप्तवन्तौ। उपलब्धे: प्राप्तये प्रो.एस.एस. मोर्यः, डा. मूलचन्द्रशुक्लः , डा. डी. एन. जोशी इत्यादयः प्राचार्याय च डॉ.खातीवर्याय समस्त- महाविद्यालय-परिवारेण सह शुभकामनां वर्धापनानि च दत्तवन्त:।