OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 31, 2024

आयुर्वेदगुरुकुलमहाविद्यालयारम्भाय ऐतिहासिकं राजपत्रं निर्गतम्।

  नवदिल्ली> संस्कृतच्छात्रेभ्यः आयुर्वेदः साक्षादध्येतुं सन्दर्भः लभ्यते। तदर्थं आयुर्वेद-गुरुकुल-महाविद्यालयारम्भाय ऐतिहासिकं राजपत्रं निर्गतम् अस्ति। केन्द्रसर्वकारस्य आयुषमन्त्रालयस्य तत्सचिवस्य वैद्यराजेशकोटेचामहोदयस्य भारतीय-चिकित्सापद्धति-राष्ट्रियायोगस्य अध्यक्षमहोदयस्य वैद्यजयन्तदेवपूजारीमहोदयस्य इतरेषां सहयोगिनां समुद्यमः एव सफलतायाः कारणम्। इतः परं संस्कृतच्छात्राः साक्षाद् आयुर्वेदाध्ययनाय अर्हाः भविष्यन्ति। संस्कृतमाध्यमेन आयुर्वदाध्ययनं भविष्यति इत्यस्ति अस्य राजपत्रस्य माहात्मम्।