OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 21, 2024

 अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा सम्पन्ना।

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरेण आयोज्यमानसु ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धासु विगत-दिनद्वयात् चत्वारिंशत् प्रतियोगितानां प्रथम-द्वितीय-तृतीय-पुरस्कारप्रदानेन समापनसमारोहः सम्पन्नः। 

  कार्यक्रमस्यास्य मुख्यातिथिः प्रो. अभिराजराजेन्द्रमिश्र-महोदयः (पूर्वकुलपतयः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी) उक्तवान् यत् वर्तमानकाले संस्कृतशिक्षकानां छात्राणाञ्च मुख्यमुत्तरदायित्वमस्ति यत् ते शब्दज्ञानराशिः वर्धयेयुः। संस्कृतभाषया एव भारतं विश्वगुरुत्वं प्राप्तुं शक्नोति। अस्माकं शास्त्राणि

उपनिषदः पुराणानि प्रत्यक्षप्रमाणानि सन्ति।

    कार्यक्रमस्य सारस्वतातिरूपेण प्रो. शिशिरकुमारपाण्डेय-महोदयः (कुलपतिः, जगद्गुरुरामभद्राचार्यदिव्याङ्गराज्यविश्वविद्यालयः, चित्रकूटम्)  विशिष्टातिथिरूपेण प्रो. रा. गा. मुरलीकृष्ण-महोदयः (कुलसचिवः केन्द्रीयसंस्कृतविश्वविद्यालयः, दिल्ली) केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेडी-महोदश्च भागं स्वीकृतवन्तः। केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य निदेशकः प्रो.रमाकान्तपाण्डेय-महोदयः समापनसमारोहकार्यक्रमस्य अध्यक्षः आसीत्। प्रो.धर्मेन्द्रकुमारसिंहदेवः डॉ.मोहिनी-अरोड़ा, प्रो.प्रदीपकुमारपाण्डेयः च सभायाम् भाषणं कृतवन्तः।

  • केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरः सप्तदश सुवर्णपदकम्, अष्टौ रजतपदकम् प्राप्य प्रथमस्थाने वर्तते ।
  • केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरः अष्टौ सुवर्णपदकं नव रजतपदकं प्राप्य द्वितीये स्थाने अस्ति ।
  • चोटीपुरा स्थितः श्रीमद्दयानन्द-कन्या-गुरुकुल-महाविद्यालयः सप्त सुवर्णपदकं चत्वारि रजतपदकं प्राप्य तृतीये स्थाने अस्ति ।