व्याजबोम्बभीषा - एकापराधी प्रत्यभिज्ञातः।
मुम्बई> राष्ट्रस्य विमानसेवां भीत्यां निमज्य विमानानां सर्वकारीयसंस्थाः च प्रति बोम्बभीषां कुर्वत्सु एकः नागपुरं आरक्षकदलैः प्रत्यभिज्ञातः। नागपुरं गोण्टिय प्रदेशीयः जगदीश उय्के [३५] नामकः एव भीषानां पृष्ठतः इति आरक्षकाधिकारिणा उक्तम्। २०२१ तमे व्याजबोम्बभीषाप्रकरणे निगृहीतः आसीत्। आतङ्कवादमधिकृत्य कस्यचन ग्रन्थस्य कर्ता भवत्येषः।
प्रधानमन्त्रिणः कार्यालयमभिव्याप्य अनेकान् सर्वकारीयकार्यालयान् प्रति च भीषापत्राणि ई मेयिल् द्वारा अनेन प्रेषितानीति आरक्षकसेनायाः 'डेप्यूटि कम्मीषणर्' पदीयस्य श्वेत खड्करस्य अन्वेषणे प्रत्यभिज्ञातम्।