OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 23, 2024

 मोदी - पुतिनमेलनं सम्पन्नम्। 

रूस्-युक्रेनयुद्धपरिसमाप्तये भारतस्य साह्यवाग्दानं पुनरपि। 

नरेन्द्रमोदी-व्लादिमिर् पुतिनमेलनात्। 

कसानः> ब्रिक्स् उच्चशिखरसम्मेलने भागं कर्तुं रूसराष्ट्रस्य कसाननगरं प्राप्तवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह सम्मिलितवान्। वर्षत्रयमापद्यमानं रूस्-युक्रेनयुद्धं  परिसमापयितुं साध्यं सर्वं साहाय्यं कर्तुं सन्नद्धमिति भारतप्रधामन्त्रिणा वाग्दानं कृतम्। 

   "रूस्-युक्रेनयुद्धस्य शान्तियुक्तः परिहार एव भारतेन काङ्क्षते। मनुष्यत्वाय प्राधान्यं दीयमानः शान्तिप्रयत्नः एव अस्माभिः क्रियते। मण्डले शान्तिः स्थिरता च पुनरागन्तव्या" - मोदिवर्येण निगदितम्। मायत्रयाभ्यन्तरे मोदिनः द्वितीयं रूससन्दर्शनमासीदिदम्।