पालस्तीनराष्ट्राय नूतनं सख्यम्
सौद्यां प्रथममेलनम्।
रियादः> पालस्तीनराष्ट्रसंस्थापनाय सम्मर्दं कर्तुं रूपीकृतस्य नूतनान्ताराष्ट्रीयसख्यस्य प्रथमं मेलनं सौदिराजधान्यां रियादे आरब्धम्। गतमासे संवृत्ते यू एन् इत्यस्य सामान्यसभामध्ये आसीत् 'द्विराष्ट्रपरिहारसाक्षात्करणाय अन्ताराष्ट्रसख्यं' रूपीकृतम्। पश्चिमेष्या, यूरोप्,इत्यत्रादिभ्यः राष्ट्राणि सख्ये सन्ति। ९० राष्ट्राणि इतराणि अन्ताराष्ट्रियसंघटनानि च द्विदिवसीये मेलनेSस्मिन् भागं कुर्वन्ति।