OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 22, 2024

 दिल्ली विद्यालयसमीपे स्फोटनं - खालिस्थानसंघमिति सन्दिह्यते। 

नवदिल्ली> दिल्ल्यां प्रशान्तविहारस्थे सि आर् पि एफ् विद्यालयसमीपे आपन्नस्य बोम्बस्फोटनस्य पृष्ठतः खालिस्खानवादिनः इति सन्दिह्यते। बोम्बस्फोटनस्य दृश्यानि खालिस्थानस्य उदकचिह्नेन [water mark] 'जस्टिस् लीग् इन्डिया' नामके 'टेलिग्राम्' संघे प्रचलन्ति। खालिस्थानवादिनः विरुध्य भारतस्य प्रक्रमाणां प्रतिकार इति सन्देश अप्यस्ति। 

  उत्तरदायित्वं स्वीकृतस्य संघस्य विस्तरांशान् दातुं टेलिग्रामं प्रति दिल्ली आरक्षकाधिकृतैः निर्दिष्टम्।

Monday, October 21, 2024

 जम्मूकश्मीरराज्ये आतङ्कवादिनः आक्रमणम्। सप्तजनाः हताः।

   जम्मूकश्मीरे भीकरा क्रमणम् अभवत्। सप्तजनाः हताः, तेषु एकः वैद्यः अन्यराज्यस्य षट् कर्मकराः च सन्ति। साङ्गणं क्षेत्रे निर्मिते एकस्मिन् सुरङ्गस्य समीपे आक्रमणम् अभवत्। जम्मूकश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लः तथा केन्द्रगृहमन्त्री अमितशाहः अपि भीकराक्रमणं निन्दितवन्तौ।

      सैनिकैः आक्रमणान् विरुध्य प्रक्रमाः स्वीकृताः। प्रदेशः सैनिकैः परिवृतः अस्ति, अन्वेषणं प्रारब्धं च। आक्रमणं द्वाभ्याम् आतङ्किभ्यामेव कृतमिति सूच्यते। प्राथमिकनिरीक्षणेन ज्ञातम् यत् तस्यां क्रियायां पाकिस्थानीयाः आतङ्किनः विद्यमानाः आसन्। आक्रमणकाले द्वौ जनौ घटनास्थले एव मृत्युमुपगतौ। एकस्य वैय्यक्तिक-स्वामित्वे प्रचलिते सुरङ्गनिर्माणस्थले आक्रमणमभवत्।

 अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा सम्पन्ना।

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरेण आयोज्यमानसु ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धासु विगत-दिनद्वयात् चत्वारिंशत् प्रतियोगितानां प्रथम-द्वितीय-तृतीय-पुरस्कारप्रदानेन समापनसमारोहः सम्पन्नः। 

  कार्यक्रमस्यास्य मुख्यातिथिः प्रो. अभिराजराजेन्द्रमिश्र-महोदयः (पूर्वकुलपतयः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी) उक्तवान् यत् वर्तमानकाले संस्कृतशिक्षकानां छात्राणाञ्च मुख्यमुत्तरदायित्वमस्ति यत् ते शब्दज्ञानराशिः वर्धयेयुः। संस्कृतभाषया एव भारतं विश्वगुरुत्वं प्राप्तुं शक्नोति। अस्माकं शास्त्राणि

 दिल्ल्यां विद्यालयसमीपे स्फोटनं; जनापायः नास्ति।

नवदिल्ली> दिल्ल्यां रोहिणीसमीपस्थे प्रशान्तविहारे सि आर् पि एफ् विद्यालयसमीपे रविवासरे प्रभाते तीव्रशब्देन स्फोटनमभवत्। तद्देशीयबोम्बः एव विस्फोटितमिति सन्दिह्यते। जनापायः नास्ति। विद्यालयस्य संरक्षणभित्तिः, समीपस्थानि कतिपयापणानि, एकं कार् यानम् इत्येतानि अंशतया विनाशितानि। राष्ट्रियान्वेषणाभिकर्ता [एन् ऐ ए], राष्ट्रियसुरक्षासंघः [एन् एस् जि], सि आर् पि एफ्, दिल्ली आरक्षकसेना, अग्निसेना इत्यादयः घटनास्थानं प्राप्य अन्वेषणमकुर्वन्।

 राजस्थाने बस् यानदुर्घटना - १२ मरणानि। 

जय्पुरं> राजस्थाने धोल्पुरे बस् यानं टेम्पो ट्रावलर् यानेन सह घट्टने एकस्मिन् परिवारे १२ अङ्गाः मृताः। शनिवासरस्य रात्रौ विवाहकार्यक्रमानन्तरं प्रतिनिवर्तमानाः आसन् दुर्घटनालग्नाः। मृतेषु ८ बालकाः भवन्ति। 

  दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्। मृतानां बान्धवेभ्यः २ लक्षंरूप्यकाणि आहतानां कृते ५०,००० रूप्यकाणि च राष्ट्रिय दुरन्तसमाश्वासनिधेः अनुमोदितानि।

 महिला टि - २० विश्वचषकः 

नूसिलान्टः किरीटजेता। 

दुबाय् > महिला टि - २० क्रिकट् विश्वचषकः नूसिलान्टेन प्राप्तः। ह्यः सम्पन्ने अन्तिमप्रतिद्वन्द्वे दक्षिणाफ्रिकां ३२ धावनाङ्कैः पराजित्य नूसिलान्टः प्रथमतया विश्वचषककिरीटम् अचुम्बत्। 

  अङ्कप्राप्तिः - नूसिलान्टः २० क्षेपणचक्रे पञ्चद्वारकाणां विनष्टेन १५८ धावनाङ्काः। दक्षिणाफ्रिका २० क्षेपणचक्रे नव द्वारकैः १२६ धावनाङ्काः। अमेलिया केर् भवति नूसिलान्टस्य विजयशिल्पिनी [४३ धावनाङ्काः, ३ द्वारकप्राप्तिः च।]

Sunday, October 20, 2024

 जोहर चषक होक्की - भारतस्य विजयः। 

जोहर् [मलेषिया]> मलेषिया राष्ट्रे आरब्धायाः एकविंशत्यधोवयस्कानां [Under 21] जोहरचषकयष्टिक्रीडायाः प्रथमे प्रतिद्वन्द्वे भारतदलस्य विजयः। विरोधिनं जापानदलं ४ - २ इति लक्ष्यकन्दुकक्रमेण पराजयत्। भारतस्य  भूतपूर्वहोक्कीनायकस्य पि आर् श्रीजेषस्य परिशीलने अस्ति भारतजूनियर् दलस्य स्पर्धाः प्रचलन्ति।

 नेतन्याहोः गृहं लक्ष्यीकृत्य ड्रोण् आक्रमणम्। 

जरुसलेमः> इस्रयेलस्य प्रधामन्त्रिणः बञ्चमिन् नेतन्याहोः वासगृहं लक्ष्यीकृत्य शनिवासरे प्रभाते ड्रोण् यन्त्रायुधमुपयुज्य आक्रमितम्। लबननस्य सायुधसंघः हमास् इत्यनेनैव आक्रमणं कृतमिति सूच्यते। तत्समये नेतन्याहुः गृहे नासीत्। 

   उत्तरइस्रयेलस्य सीसेरियप्रदेशे वर्तमानं गृहं प्रति विधत्ते आक्रमणे जनापायः न सम्भूतः। हमासस्य नेतुः यहिया सिन्वरस्य हत्यायाः प्रतीकारः इदमाक्रमणमिति सूच्यते।

 बिहारमद्यदुरन्तः - मृत्युसंख्या ३७ अभवत्। 

पट्ना> मद्यनिरोधे वर्तमाने बिहारस्य सिवान् सारण् जनपदद्वयेविषमद्यपानेन मृतानां संख्या ३७ अभवत्। गोपालगञ्च् जनपदस्थे बैकुन्तपुरे एव नूतनं मरणद्वयमापन्नम्।

Saturday, October 19, 2024

 दिल्ल्यां वायुशुद्धता निन्द्यमानस्तरं पतति। 

यमुनायां विषफेनम्। 

नवदिल्ली> शैत्यकाले आरभ्यमाणे राष्ट्रराजधानीनगरे वायोः शुद्धतास्तरे दोषः अनुभूयते। सप्ताहं यावत् अन्तरिक्षे शैत्यमनुभूयते। शुक्रवासरे तीव्रशैत्यमनुभूतम्। संसद्सभापरिसरे, मध्यदिल्ली, राजधान्यां विविधस्थानेषु च ह्यः कठिनं हिमावरणं दृष्टम्। 

   रविवासरे वायोः अशुद्धता  तीव्रनिन्द्यस्तरम् आपतिष्यतीति पर्यावरणप्रवचनं वर्तते। 

  तथा च यमुनानद्यां विविधस्थानेषु विषफेनं दृष्टम्। जले मलिनीकरणद्वारा रासप्रवर्तनेन श्वेतवर्णयुक्तफेनजालम् उत्पाद्यते इति सूच्यते। दीपावलि दिनेषु नदीम् अवतार्यमाणानां स्वास्थ्यक्लेशाः भवेयुरिति परिस्थितिज्ञैः निगदितम्।

 बिहारे व्याजमद्यदुरन्तः - ३५ जनाः मृताः।

पट्ना> मद्यनिरोधे वर्तमाने बिहारराज्ये व्याजमद्यं पीत्वा ३५ जनाः मृत्युमुपगताः। मङ्गलवासरे आसीदियं घटना दुरापन्ना। सिवान् जनपदे २८, सारणजनपदे ७ जनाः च मृता इति सूच्यते। २५ अधिकं जनाः आतुरालयेषु परिचर्यायां वर्तन्ते। बहूनां दर्शनशक्तिः विनष्टा जाता। 

  व्याजमद्यविक्रये १५ जनाः आरक्षकैः निगृहीताः। सविशेषसंघद्वयं रूपीकृत्य अन्वेषणमारब्धम्।

Friday, October 18, 2024

 भारते उपग्रह अन्तर्जालसुविधां दातुम् इलोण् मस्कः। 

मुम्बई>भारते अन्तर्जालसुविधाम् उपग्रहसाह्येन लब्धुं स्वस्य 'स्टार्लिङ्क्' नामिकासंस्था सज्जा इति इलोण् मस्कः निगदितवान्। उपग्रह अन्तर्जालाय 'स्पेक्ट्रं' साक्षाल्लभ्यमानं भविष्यतीति केन्द्र वार्तावितरणमन्त्रिणः ज्योतिरादित्य सिन्ध्यस्य प्रस्तावमनुसृत्य मस्केन एक्स् माध्यमेन सूचितोSयं  वृत्तान्तः। 

  उपग्रहस्पेक्ट्रम् अनुज्ञा कथं दातव्या इति टेलिकोम् नियन्त्रण अथोरिटि [ट्राय्] संस्थया एव निर्णयः करणीयः। आगोलव्यपकेन उपग्रहस्पेक्ट्रम् शासनस्तरीये साक्षादेव ददाति। भारतमपि तदवलम्बिष्यते।

संस्कृत-विद्वान् पं.वसन्त-अनन्त-गाड्गीलः दिवंगतः॥

बलदेवानन्दसागरः

   शारदा'- इति संस्कृतपत्रिकायाः संस्थापक-सम्पादकः सुख्यातः संस्कृत-विद्वान् पं.वसन्त-अनन्त-गाड्गीलः गतरात्रौ हृदयगत्यवरोधात् प्राणान् अत्यजत्। असौ चतुर्नवति-वर्षदेशीयः आसीत्। अमुना संस्कृत-समाराधकेन आजीवनं संस्कृतस्य पत्रकारिताक्षेत्रे सुबहु योगदानम् अनुष्ठितम्। अस्मै महात्मने विनम्राः भावाञ्जलयः सादरं समर्प्यन्ते। शान्तिः शान्तिः शान्तिः ॥

 हमासनेता यह्या सिन्वरः हतः। 

यह्या सिन्वरः। 

जरुसलेमः> हमास् सायुधसेनायाः नेता यह्या सिन्वरः गतदिने सम्पन्ने सैनिकप्रक्रमे हतः इति इस्रयेलस्य विदेशकार्यमन्त्री इस्रयेल् कैट्स्  इत्यनेन निगदितम्। २०२३ ओक्टोबर् सप्तमे दिनाङ्के इस्रयेलं प्रति हमासेन कृतस्य आक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् सिन्वरः इति सूच्यते।

  हमासस्य उन्मूलनाशः इति इस्रयेलस्य लक्ष्ये अतिप्रधानमासीत् हत्येयम्। दक्षिणगासायां राफा इत्यत्र कृते आक्रमणे सिन्वरस्य मरणमिति सूच्यते। डि एन् ए परिशोधनया एव निहतेषु त्रयेषु एकः यह्या सिन्वरः इति इस्रयेलेन दृढीकृतम्।

 जम्मु काश्मीरे ओमर् अब्दुल्ला प्रशासनं शपथमकरोत्। 

श्रीनगरं> सविशेषपदनिरासानन्तरं सम्पन्ने निर्वाचने विजयीभूतस्य नाषणल् कोण्फ्रन्स् दलस्य नेता ओमर् अब्दुल्ला जम्मु काश्मीरस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृत्वा पदं प्राप्तवान्। लफ्टनन्ट् राज्यपालः मनोजसिंहः शपथमकारयत्। 

  पञ्चाङ्गमन्त्रिमण्डलमेव पदं प्राप्तवत्। जम्मुक्षेत्रात् चितः सुरीन्दर् चौधरी उपमुख्यमन्त्री भविष्यति। सर्वकाराय बहिःस्थित्वा सहयोगं दास्यतीति सख्यदलेन कोण्ग्रसेन निगदितम्।

Thursday, October 17, 2024

 बृहस्पतिग्रहे भीमाकारं रक्ततिलकम्।

     अनन्ताद्भुतानां भण्डाकारः भवति अस्माकं भूमिः आकाशः च। अनन्तम् अज्ञातम् अवर्णनीयं निगूढम् च भवति, सूर्यः, ग्रहाः, उपग्रहाः च। विश्वस्मिन् नूतनायाः प्रौद्योगिकविद्यायाः प्रभावेन अनेकाः आविष्काराः कृताः अपि इतःपरम् उत्तरं लब्धुम् अशक्याः बहवः प्रश्नाः सन्ति बाह्याकाशलोके। तद्वत् अतिविस्मयावहा नूतना विशेषघटना भवति बृहस्पतिग्रहे दृश्यमानं रक्ततिलकं, किन्तु एतत् अनित्यम् इति च उच्यते नासया। नासायाः हबिल् स्पेस् इति विहायदर्शनी द्वारा कृते अनुसन्धानेन लब्धम् इदं नूतनं ज्ञानम्।

 हिस्बुल्लायायाः शक्तिकेन्द्रेषु इस्रयेलस्य व्योमाक्रमणं - २५ मरणानि। 

बेय्रूट्> लबनने युद्धविरामनिर्देशः न केवलम् इस्रयेलेन निरस्तं किन्तु अचिरेणैव हिस्बुल्लायायाः शक्तिदुर्गेषु शक्तमाक्रमणं कृतम्। इस्रयेलेनकृते व्योमाक्रमणे नबतियेहनगरस्य अध्यक्षमभिव्याप्य २५ जनाः मृत्युमुपगताः इति लबनेन निगदितम्। ४३ जनाः व्रणिताः। इस्रयेल-हिस्बुल्ला प्रतिद्वन्द्वे अद्यावधि १३५६ जनाः मृताः इति सूच्यते।

 कानडायाः भारतविरुद्धारोपे अमेरिकायाः अनुकूलता।

वाषिङ्टणं> खालिस्थानभीकरस्य हर्दीपसिंह निज्जरस्य हत्याविषये कानडायाः भारतविरुद्धारोपः यू एस् राष्ट्रेण अनुकूलितः। कानडायाः आरोपः अतिगौरवयुक्तः , तस्मिन्  प्रकरणे तद्राष्ट्रस्य अन्वेषणे भारतेन सहयोगः कार्य इति यू एस् राष्ट्रेण प्रस्तुतम्। निज्जरप्रकरणे भारत-कानडाबन्धे अपस्वरे जाते अस्ति यू एस् विदेशकार्यवक्तुः मात्यू मिल्लर् इत्यस्य प्रस्तावः। प्रत्युत, यू एस् - भारतबन्धुत्वम् अनुवर्तिष्यते इति तेन सूचितम्।

Wednesday, October 16, 2024

 तमिलनाटे अतिवृष्टिः - ६ मरणानि । 

चेन्नै> वंगसमुद्रान्तराले सञ्जातः न्यूनमर्दः तीव्रन्यूनमर्दे जाते तमिलनाटराज्ये अतिवृष्टिः अनुभूयते। वृष्टेः दुष्प्रभावात् षट् जनाः मृताः। चेन्नै नगरस्थानि विविधानि गृहाणि मार्गाश्च जलाप्लावितानि जातानि। 

  चेन्नै, चेङ्कल् पेट्, काञ्चीपुरं, तिरुवल्लूर् जनपदेषु अद्य विरामः प्रख्यापितः।

 गुजरातप्रदेशे विषवातकस्य निर्गमनेन श्वासरोधेन ५ कर्मकराः  मृताः।

  गुजरातप्रदेशस्य कच्छनगरस्य इमामी अग्रोटेक् इति उद्योगशालायं विषवातकस्य निर्गमः अभवत्। अद्य प्रभाते एव दुर्घटना अभवत्। उद्योगशालायाः मालिन्यकूपस्य स्वच्छताकरणे सन्दर्भे एव विषवातकस्य निर्गमनं जातमिति अनुमन्यते। विषवातकस्य श्वसनेन मूर्छया पतितान् कर्मकरान् रक्षयन्तः श्रमिकाः अपि मृताः। मृतेषु एकः पर्यवेक्षकः अन्यः कूपसंचालकः च आस्ताम्।

 षाङ् हाय् सहयोग उच्चशिबिरं 

भारतविदेशकार्यमन्त्री पाकिस्थानं प्राप्तः। 

जयशङ्कराय पाकिस्थाने लब्धं स्वीकरणम्। 

इस्लामबादः>  षाङ् हाय् सहयोग उच्चशिबिरे भागं कर्तुं भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने सायं पाकिस्थानस्य राजधानीम् इस्लामबादं प्राप्तवान्। अष्ट वर्षेभ्यः अनन्तरमेव भारतस्य विदेशकार्यमन्त्री पाकिस्थानं सन्दर्शयति। 

  मङ्गलवासरे सायं काले षाङ् हाय् अङ्गराष्ट्राणां प्रतिनिधिभ्यः पाकिस्थानप्रधानमन्त्रिणा षहबास् शरीफेन  आयोजिते  सौहृदसत्कारे जयशङ्करः भागं स्वीकृतवान्। षाङ् हाय् सहयोगसख्यस्य प्रवर्तनेषु सजीवभागभागित्वं भारतेन अनुवर्तिष्यते इति जयशङ्करेण निगदितम्।

 मणिपुरे अक्रममार्गं परित्यक्तुं संयुक्ताभ्यर्थना। 

नवदिल्ली> मणिप्पुरे वंशीयविद्वेषजनिताक्रमपरम्परामारभ्य प्रथमतया आयोजिते कुक्की, मेय्ती, नागा विभागानां विधानसभासदस्यानाम् उपवेशनं संवृत्तम्। केन्द्रसर्वकारान्तर्गतस्य गृहमन्त्रालयस्य आभिमुख्ये आयोजिते मेलने अक्रममार्गात् सर्वे विभागाः अपसरणीयाः इति अभ्यर्थितुम् ऐककण्ठ्येन निश्चितम्। 

  उपवेशनेSस्मिन् कुक्की मेय्ती विभागेभ्य‌ः २० सदस्याः नागाविभागात् त्रयः सदस्याश्च भागं स्वीकृतवन्त इति गृहमन्त्रालयेन निगदितम्।

 महाराष्ट्र झार्खण्डयोः विधानसभानिर्वाचनम् विज्ञापितम्।

केरले वयनाट् लोकसभां पालक्काट्, चेलक्करा विधासभाद्वयं प्रति उपनिर्वाचनं चोद्घोषितम्। 

नवदिल्ली> महाराष्ट्रं झार्खण्डः इत्येतयोः राज्ययोः विधानसभानिर्वाचनं निर्वाचनायोगेन  विज्ञापितम्। महाराष्ट्रे नवम्बर् २० तमे दिनाङ्के एकेनैव चरणेन सम्पत्स्यते। तत्र २८८ मण्डलानि वर्तन्ते। 

  झार्खण्डे नवम्बर् १३, २० दिनाङ्कयोः  सोपानद्वयेन मतदानप्रक्रिया भविष्यति। तत्र आहत्य  ८१ मण्डलानि सन्ति। 

    तथा च केरले वयनाट् लोकसभामण्डले  पालक्काट्, चेलक्करा विधासभाद्वये च  उपनिर्वाचनं नवम्बर् १३ तमे दिनाङ्के  विधास्यति। राहुल गान्धिवर्यः वयनाट् मण्डलं विना राय्बरेली मण्डले अपि विजितः इत्यतः वयनाट् निरस्तमासीत्। इतरराज्यविधानमण्डलद्वयस्य सदस्यौ आस्तां लोकसभां प्रति चितौ।

Tuesday, October 15, 2024

 महिला टि - २० 

भारतं बहिर्गतम्। 

दुबाय्> महिलानां टि - २० क्रिकट् विश्वचषकस्पर्धायां भारतस्य पूर्वान्त्यचक्रप्रवेशनप्रतीक्षा अस्तमिता। 'ए संघे' निर्णायके प्रतिद्वन्द्वे यदा पाकिस्थानं न्यूसिलान्टेन पराजितं तदैव भारतस्य पूर्वान्त्याभिलाषः अस्तं गत्वा परम्परायाः बहिर्नीतम्। स्पर्धायामस्यां यदि पाकिस्थानं विजयीभूतं तर्हि भारतस्य पूर्वान्त्यचक्रप्रतीक्षा  भवेत्।

 मणिपुरं सङ्घर्षः - कुक्की, मेय्ती, नागासदस्याः अद्य चर्चां करिष्यन्ति। 

इम्फाल्> मणिपुरे संघर्षस्य परिहाराय अद्य कुक्की, मेय्ती, नागासदस्याः दिल्ल्यां चर्चां करिष्यन्ति। केन्द्रसर्वकारस्य गृहमन्त्रालयस्य नेतृत्वे अस्ति चर्चा। 

   मणिपुरसंघर्षस्य प्रारम्भारन्तरं प्रथममेव विविधविभागस्य सदस्यान् अन्तरभाव्य  एतादृशी चर्चा समायोज्यमाना वर्तते। समस्यापरिहाराय केन्द्रसर्वकारस्य पदक्षेपस्य अंश एवेयं चर्चा।

 आर्थिकनोबेल् पुरस्काराय त्रयः चिताः। 

   ओस्लो> २०२४ तमवर्षस्य आर्थिकनोबेल् पुरस्काराय त्रयः शास्त्रज्ञाः चिताः। यू एस् मध्यस्थे Massachusetts Institute of Technology [एम् ऐ टि] नामकसंस्थायाः शास्त्रज्ञौ डारोण् असे मोग्लु, सैमण् जोण्सण्, तथा च षिकागो विश्व विद्यालये गवेषकः जेयिम्स् ए रोबिन् सण् इत्येते पुरस्कारजेतारः भवन्ति।

 वयनाट् दुरन्ते केन्द्रसाह्यम् अभ्यर्थ्य केरलविधानसभया निवेदनमनुमोदितम्।

अनन्तपुरी>  जूलैमासे वयनाट् जनपदस्थे चूरल्मला-मुण्टक्कै क्षेत्रे दुरापन्ने भूस्खलने आर्थिकसाहाय्यस्य विलम्बे खेदं प्राकट्य केरलविधानसभा ऐककण्ठ्येन अभियाचिकाम्  अनुमोदयत। विपक्षीयसदस्यः टि सिद्दिखः  निवेदनमवतारितवान्। 

  प्रत्युत, वयनाटाय यदावश्यकं तल्लप्स्यते इति केन्द्रवित्तमन्त्रिणी निर्मला सीतारामः कोच्चीमध्ये निगदितवती।

 राजनैतिकलाभाय भारतस्य अपकीर्तिं कर्तुं योजनाबद्धः प्रयासः।

 कनेडीयायाः प्रधानमन्त्रिणं प्रति  विदेशकार्यमंत्रालयेन तीव्रविमर्शः कृतः।

   कनेडीयायाः प्रधानमन्त्री जस्टिन् ट्रूडो इत्यस्मिन् प्रति तीव्रविमर्शं विदेशकार्य-मंत्रालयेन कृतम्। भारतस्य विषये  ट्रूडो स्वस्य राजनैतिकतायाः भागतया आरोपणं कृतवान् , एषः आरोपः  भारतस्य राजनीतिके विषयेषु तस्य हस्तक्षेपं सूचयति। राजनीतिकलाभाय भारतस्य अपकीर्तिं कर्तुं कानडायायाः प्रधानमन्त्रिणः योजनाबद्धं तन्त्रम् अस्ति इति विदेशकार्य मंत्रालयेन आरोपितम्। निज्जरस्य हत्याकाण्डस्य अन्वेषणे भारतीय उच्चायुक्तस्य तथा दूतियुक्तानाम् अपि व्यक्तिगतं चित्तम्  अस्ति इति  कानडायाः आरोपः भारतं निराकरोति।

Monday, October 14, 2024

 भारत-बङ्गलादेशयोः टि - २०  क्रिकट् - स्पर्धात्रये अपि भारतस्य विजयः। 

सञ्जु सांसणस्य शतकम्। अन्तिमे प्रतिद्वन्द्वे १३३ धावनाङ्कानां विजयः। 

हैदराबादः> बङ्गलादेशेन सह भारतस्य टि २०  क्रिकट्परम्परायाः तृतीयप्रतिद्वन्द्वे अपि भारतस्य उज्वलविजयः। २९८ विजयलक्ष्येन कन्दुकताडनमारब्धं बङ्गलादेशदलं १३३धावनाङ्कैः पराजित्य एव भारतं विजयकिरीटमधरत्। 

  भारतस्य कन्दुकताडनवेलायां केरलीयेन सञ्जु सांसणेन शतकं प्राप्तम्। ४४ कन्दुकैः १११ धावनाङ्काः तेन सम्पादिताः।

 लबनने अधिकनिष्कासनाय उद्दिश्य इस्रयेलः। 

बय्रूट्>  इस्रयेलस्य लबननं विरुध्य आक्रमणं तीव्रं कर्तुं लबननस्य दक्षिणभागे वर्तमानेषु २० ग्रामेषु वसतः जनान् ततः निष्कासितुम् इस्रयेलसेनया आदेशः विज्ञापितः। सुरक्षामालक्ष्य अवालिनद्याः उत्तरभागं प्रति अपसर्तुमेवादेशः। 

  रविवासरे दक्षिणलबनने कृते आक्रमणे कफर् तिब्निट् नामके ग्रामे वर्तमानः शतवर्षपुरातनः आराधनालयः निश्शेषेण भञ्जितः। नबातिये नामापणमपि सम्पूर्णतया विशीर्णम्। ह्यस्तनाक्रमणे १५ जनाः हताः, ३६ जनाः व्रणिताश्च।

 कार् यानादीनां लघुवाहनानां मार्गशुल्कं न भविष्यति। श्रद्धेयः निर्णयः स्वीकृतः सर्वकारेण।

    भारतस्य महानगराणि गच्छतां जनानां शिरोवेदनायाः कारणं भविष्यति मार्गेशुल्कम् (Toll)। किन्तु इदानीं मुम्बईनगरं प्रति गम्यमानानां लघुयानानां कृते मार्गशुल्कं न देयम्। विगते सोमवासरे महाराष्ट्रमुख्यमंत्री एक्नाथशिन्दे महोदयः मुम्बईनगरस्य प्रवेशद्वारे संस्थपितेषु पञ्चसु मार्गशुल्कद्वारेषु लघुयानानां (LMV) शुल्कं सम्पूर्णरूपेण परित्यक्तम् इति विज्ञापितवान्। अयम् नियमः अक्तोबरमासस्य १५ दिनाङ्कतः अर्धरात्रिरारभ्य प्रबलं भविष्यति। राज्ये विधानसभानिर्वाचने आसन्ने, मिलिते अन्तिममन्त्रिपरिषदि भवति इदं जनप्रियनिर्णयं स्वीकृतम्।

Sunday, October 13, 2024

 चेन्नै समीपे रेल् यानद्वयं घट्टितं - १९ जनाः आहताः। 

अन्वेषणम् एन् ऐ ए संस्थया स्वीकृतम्। 

चेन्नै> तमिल् नाटे चेन्नै समीपे तिरुवल्लूर् कावेरिप्पेट्टा रेल् निस्थाने मैसुरु - दर्भङ्गा एक्स्प्रेस यानं स्थगितेन  पण्ययानेन सह घट्टने १९ जनाः आहताः। गुरुवासरे रात्रौ ८. ३० वादने आसीत् दुर्घटना। यात्रायानस्य २३ कक्षाः पथविभ्रष्टाः जाताः। 

  दुर्घटनायां प्रतिलोमकर्म सन्दिह्य सर्वकारेण एन् ऐ ए संस्थायाः अन्वेषणं प्रख्यापितम्।

उत्तराखण्डसंस्कृताक्कादम्या संस्कृतछात्रप्रतियोगिता आयोक्ष्यन्ते।

वार्ताहर:- कुलदीपमैन्दोला।

  • छात्राः संस्कृतेन गास्यन्ति, नृत्यं करिष्यन्ति, वदिष्यन्ति च।
  • अक्टोबर-मासस्य १५, १६ दिनाङ्के मोटाढाकविद्यालये संस्कृत-छात्र-प्रतियोगिता भविष्यति । 
  • कण्वनगर्यां भविष्यति षोडशतमसंस्कृतमहोत्सव: 

      उत्तराखण्डसंस्कृताकादमीद्वारा १५ तथा १६ अक्टोबर् २०२४ दिनाङ्के दुगड्डाविकासखण्डे जनता-इण्टर-कालेज-मोटाढाके संस्कृतछात्रप्रतियोगितानाम आयोजनं क्रियते, यस्मिन् कनिष्ठ-वरिष्ठवर्गे आहत्य ०६ संस्कृतछात्रप्रतियोगितानां आयोजनं क्रियते।

1.संस्कृतनाट्यप्रतियोगिता

2.संस्कृतसमूहगानप्रतियोगिता

3.संस्कृतसमूहनृत्यप्रतियोगिता

4.संस्कृतवादविवादप्रतियोगिता 

5.संस्कृत-आशुभाषण- प्रतियोगिता

 6.श्लोकोच्चारणप्रतियोगिता च आयोजिताः भविष्यति। 

   दुगड्डाविकासखण्डस्य संस्कृत-छात्रप्रतियोगितायाः मार्गदर्शक-शिक्षाधिकारिण: अमितकुमारचंदमहोदयस्य निर्देशने खण्डसंयोजक: कुलदीपमैन्दोला, जनपद-सहसंयोजकः डा. रमाकान्तकुकरेती च अकादम्याः निर्देशिकानुसारेण सूचना प्रदत्तवन्तौ। प्रथमदिवसे कनिष्ठवर्गस्य एवं च द्वितीयदिवसे वरिष्ठवर्गस्य प्रतियोगिता: भविष्यन्ति।

  खण्डस्तरस्य कनिष्ठवर्गे 06 तः 10 पर्यन्तं तथा च कक्षा 11 तः स्नातकोत्तरपर्यन्तं च संस्कृतछात्रप्रतियोगितासु बालकाः बालिकाः च भागं गृह्णन्ति। खण्डस्तरस्य प्रथमद्वितीयविजेताप्रतिभागिनः दलं च जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दातुं पूर्वं खण्डसंयोजकस्य खण्डशिक्षाधिकारिणः स्वयमेव च आवेदनपत्रे हस्ताक्षरं कृत्वा एव छात्रान् जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दास्यति। अनुभागस्तरीयप्रतियोगितासु प्रथमद्वितीयतृतीयस्थानं प्राप्तानां प्रतिभागिनां प्रमाणपत्राणि साक्षात्पुरस्काराणि च प्रदत्तानि भविष्यन्ति तथा च कनिष्ठवरिष्ठवर्गयो: प्रथमपुरस्काराय ८०० रूप्यकाणि, द्वितीयस्य ६०० रूप्यकाणि तृतीयस्य च ४०० रूप्यकाणि अपि प्रदत्ताः भविष्यन्ति।

Saturday, October 12, 2024

 रत्तन् टाटावर्यस्य अनुगामी नोयल् नवल् टाटा वर्यः।

नोयल् नवल् टाटा।

मुम्बई> टाटा व्यवसायसाम्राज्यस्य अध्यक्षरूपेण दिवंगतस्य रत्तन् टाटावर्यस्य अर्धसोदरः नोयल् नवल् टाटा वर्यः ऐककण्ठ्येन चितः। Sir Rattan Tata trust, Sir Dorabji Tata trust इत्याद्यानां १३ ट्रस्ट् संस्थानां संयोजितरूपं 'टाटा ट्रस्ट्' इत्यस्य अध्यक्षपदमेव नोयल् नवल् टाटा वक्ष्यति।

  ट्रस्टि अङ्गानां स्वस्मिन् विश्वासः परिरक्षिष्यते इति नोयल् वर्येण सूचितम्। टाटापरिवारस्य पारम्पर्यमनुवर्तिष्यते। राष्ट्रनिर्मितेः जीवकारुण्यप्रवर्तनानां व्यवसायविकासस्य च कृते वयं समर्पितचेताः भविष्यामः इति च तेनोक्तम्।

 फ्लोरिडायां चक्रवातः - चत्वारि मरणानि। महान्नाशः।

टाम्पा> बुधवासरे रात्रौ अमेरिकायां फ्लोरिडा प्रान्ते तीरं प्राप्तः मिल्टन् इति कृतनामधेयः चक्रवातः महन्नाशकारणमभवत्। प्रशासनेन पूर्वजागरूकता विधत्ता अपि अद्यावधि १५ जनाः मृत्युमुपगताः।

    ३२ लक्षं गृहेषु विद्युत् विनष्टा। राक्षसीयचक्रवातस्य अतिवृष्टेः च दुष्प्रभावेन अनेके प्रदेशाः जलनिमग्नाः जाताः। गमनागमनसुविधा स्थगिता।

 गासायां विद्यालये इस्रयेलस्य आक्रमणं - २८ मरणानि। 

जरुसलेमः> गासायाम् अभयार्थिकेन्द्ररूपेण प्रवर्तमाने विद्यालये इस्रयेलेन कृते आक्रमणे २८ जनाः मृताः। ५४ जनाः व्रणिताः अभवन्। हमासस्य निर्देशककेन्द्रमेव विद्यालये प्रवर्तितमिति इस्रयेलसेनया निगदितम्। 

  गासायाम् अभयार्थिशिबिररूपेण प्रवर्तमानान् विद्यालयान् लक्ष्यीकृत्य इस्रयेलेन कृतेषु आक्रमणेषु नूतनतममासीत् ह्यस्तनमाक्रमणम्। अद्यावधि गासायां मृतानां संख्या ४२,०६५ अभवत्।

Friday, October 11, 2024

 महानवमी- अद्य सामान्यविरामदिनम्। 

अनन्तपुरी> महानवमीं पुरस्कृत्य शुक्रवासरः राज्यसर्वकारेण विरामदिनत्वेन प्रख्यापितः। पूर्वं केवलं विद्यालयानां कृते आसीत् विरामः। किन्तु इतरासां सर्वकारीयसंस्थानामपि विरामः भविष्यति।

 साहित्यनोबेल् पुरस्कारः हन् काङ् वर्यायै। 


स्टोक् होम्> अस्य वर्षस्य साहित्यनोबेल् पुरस्काराय हन् काङ् नामिका दक्षिणकोरियन् साहित्यकारी  चिता। इदंप्रथममेव साहित्यस्य नोबेल् पुरस्कारः दक्षिणकोरियां प्राप्तः। 

    मानसिक-शारीरिकपीडयोर्मिथः व्यवहारस्य अगाधतां मार्गमाणाः रचनाः भवन्ति हन् वर्यायाः इति निरीक्षकाणाम् अभिमतम्। ५३ वयस्का सा १९३३ तमे वर्षे कवितारचनया साहित्यमण्डलं प्रविष्टा। ततः कथाः आख्यायिकाश्च व्यरचयत्। २०१६ तमे वर्षे 'The Vegetarian' इत्याख्यायिकया बुक्कर् पुरस्कारं प्राप्तवती। "Human Acts", " We do not do it", "The White book" इत्याद्यः तस्याः प्रमुखाः आख्यायिकाः भवन्ति।

 रत्तन् टाटा वर्याय सहस्राणाम् अन्त्याञ्जलयः। 


सम्पूर्णबहुमत्या अन्त्येष्टिः सम्पन्ना। 

मुम्बई>  गतदिने कालयवनिकां प्राप्ताय व्यावसायिकप्रमुखाय रत्तन् टाटावर्याय जीवनस्य विविधस्तरीयाः सहस्रशः जनाः अन्त्याञ्जलयः समर्पितवन्तः। नरिमान् पोयन्ट् इत्यत्र स्थिते  एन् सि पि ए अङ्कणे टाटावर्यस्य  राष्ट्रपताकावृतं भौतिकशरीरं  राष्ट्रस्य समादरं स्वीकृतवत्। 

  क्रिकट् इतिहासः सचिन् टेण्टुल्करः टाटावर्यस्य भवनं प्राप्य अन्याञ्जलिं समर्पयामास। आदित्य बिर्ला, मुकेश् अम्बानी इत्यादयः व्यवसायप्रमुखाः स्वपरिवारैः सह अन्त्योपचारं समर्पयामासुः। केन्द्रमन्त्री अमित शाहः, महाराष्ट्रस्य मुख्यमन्त्री एकनाथ षिन्दे, गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः इत्यादयः राजनैतिक - प्रशासननेतारश्च  अन्त्याञ्जलिं समर्पितवन्तः।

Thursday, October 10, 2024

 भारतीयानां खाद्यसंस्कृतिः वातावरणानुकूला भवति। अर्जन्टीनायाः तथा अमेरिक्कायाः  खाद्यशैली तु अत्यधिकं प्रतिकूला।

    भारतीयानां आहारोपभोगः वातावरणानुकूलः भवति इति डब्लियू. डब्लियू. एफ् संस्थायाः (world Vide fund for nature) प्रतिवेदनम्। जि २० राष्ट्राणां मध्ये अत्यधिकां परिस्थित्यनुकूलां  आहाररीतिम् अनुवर्तमानं राष्ट्रं भवति भारतम् इति गतदिने प्रकाशिते लिविङ् प्लानट्ट् प्रतिवेदने सूचितमस्ति। परिस्थित्यनुकूलः आहारोपभोगः हरितगृहवातकबहिर्गमनं निवारयति। एतत् तु वातावरणानुकूलां अवस्थां जनयितुं प्रभवति इत्यपि प्रतिवेदने सूचितम् अस्ति।

 महिला टि - २० विश्वचषकः 

भारतस्य द्वितीयविजयः। 

दुबाय्> महिला टि - २० विश्वचषक क्रिकेट स्पर्धायां भारतं श्रीलङ्कां ८२ धावनाङ्कैः पराजित्य पूर्वान्त्यप्रतीक्षां ददाति। अङ्कप्राप्तिः - भारतं २० क्षेपणचक्रैः क्रीडिकात्रयस्य विनष्टे १७२धावनाङ्काः। श्रीलङ्का तु १९. ५ क्षेपणचक्रेषु ९० धावनाङ्कैः सर्वाः बहिर्नीताः। 

  भारतस्य स्मृति मन्थाना, नायिका हर्मन् प्रीतकौर् च अर्धशतकं प्राप्तवत्यौ। हर्मन् प्रीता श्रेष्ठक्रीडिका अभवत्।

 वसन्ति एकस्मिन् गृहसमुच्चये २०००० जनाः।

    चीनदेशे क्वियाञ्जियाङ् शताब्दिनगर्यां रीजेण्ट् अन्ताराष्ट्रीयः गृहसमुच्चयः अस्ति। जगति सर्वाधिक-जनसंख्यानाम् आवसत्वेन प्रसिद्धः विशालतमः गृहसमुच्चयः भवति अयम्।

   अस्य वैशिष्ट्यं यत् एतस्मिन् चतुस्त्रिंशत् तलेषु सहस्रशः उच्चस्तरीयानि आवासीयानि पत्तनानि सन्ति, अस्मिन् द्विसहस्राधिकाः जनाः निवसन्ति च। २६००० 'स्क्वयर्मीट'र्मिते स्थले ६७५ पादमिते 'S' आकारेण निर्मितं भवति इदम् । एतत् प्रथमतः आतिथ्यनिकेतनस्य कृते निर्मितम् आसीत् , परं पश्चात् महान्तः आवासीयाः 'अपार्टमेण्ट्' इति रूपेण परिवर्तितः। एतस्मिन् महाभवने प्रायः ३०,००० जनेभ्यः वस्तुं शक्यते।

 रतन् टाटा दिवंगतः।


  मुम्बई> नवभारतशिल्पिषु अन्यतमः उद्योगप्रमुखश्च रतन् टाटावर्यः [८६] दिवंगतः। व्यावसायिकभारतनिर्माणेन सह स्वजीवने मानविकमूल्यानाम् आदर्शपूर्णं समर्पणं च कृतवतः तस्य अन्त्यं ह्यः रात्रौ ११. ४५ वादने मुम्बय्यां ब्रीच् कान्डि आतुरालये आसीत्। 

   अनुस्यूततया २१ वर्षाणि टाटा ग्रूप् नामक व्यावसायिक संस्थायाः अध्यक्षः आसीत्। भारतीयानां कृते टाटा इन्डिका नामकं कार् यानं, सामान्यजनानां कृते 'नानो' इति न्यूनातिन्यूनतममूल्ययुक्तं कार् यानम् इत्यादीनि तस्य सामाजिकप्रतिबद्धतायाः निदर्शनत्वेन विलसन्ति। 

  रतन् टाटावर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी, लोकसभायाः विपक्षनेता राहुलगान्धी इत्यादयः प्रमुखाः अनुशोचितवन्तः।

Wednesday, October 9, 2024

  व्यङ्ग्यचित्रम् - देवीदासपाण्डेयः
 

 जम्मु काश्मीरे कोण्ग्रस् नेतृत्वे 'इन्डिया' सख्यस्य विजयः। 

श्रीनगरं>  'त्रिशङ्कुसभां' प्रवाचिते जम्मु काश्मीरे तस्य  विरुद्धतया नाषणल् कोण्फ्रन्स् - कोण्ग्रस् सख्यस्य महान्विजयः। आहत्य ९० मण्डलेषु इन्डिया सख्यं ४९ मण्डलेषु विजयीभूतम्। नाषणल् कोण्फ्रन्स् दलेन ४२ स्थानानि, कोण्ग्रसेन ६ स्थानानि, सि पि एम् दलेन एकं स्थानं च प्राप्तानि। 

  भाजपा दलेन २९ स्थानानि प्राप्तानि। गतवारात् ४ स्थानानि अधिकतया प्राप्तानि।

 हरियाने भाजपा दलस्य अनुस्यूततया  तृतीयवारम्।

नवदिल्ली> राज्यविधानसभां प्रति सम्पन्नस्य निर्वाचनस्य मतगणने परिसमाप्ते भाजपदलस्य पुनरपि विजयः। आहत्य ९० स्थानेषु  भाजपादलेन ४८ स्थानानि प्राप्तानि। विजयप्रतीक्षां प्रकटितेन कोण्ग्रस् दलेन ३७ स्थानानि विजितानि। ऐ एन् एल् डि दलेन स्थानद्वयमुपलब्धम्। अन्यैः त्रीणि स्थानानि प्राप्तानि।

Tuesday, October 8, 2024

 पश्चिमवंगे खनिजङ्गारक्षेत्रे स्फोटनं - पञ्च मरणानि। 

   कोल्कोत्ता> पश्चिमवंगे बिर्भूमजनपदस्थे गङ्गाराम् चक् खनिजङ्गारक्षेत्रे ह्यः दुरापन्ने विस्फोटे पञ्च जनाः मृताः। त्रयाधिकाः आहताः। खननार्थं स्फोटकवस्तूनि भारवाहकात् अवतारवेलायामेव स्फोटनमभवत्। स्फोटनकारणाय अन्वेषणमारब्धम्।

 मणिप्पुरे आयुधसञ्चयः अधिगतः। 

इम्फाल्> मणिप्पुरस्थे कक्चिङ्, तौबल् इत्येतयोः जनपदयोः सुरक्षासेनया कृते अन्वेषणे भुषुण्डयः, स्फोटकवस्तूनि इत्यादीनि आयुधानि अधिगतानि। ४ भुषुण्डयः, १५ ग्रनेट् स्फोटकानि, ४. ७५ किलो परिमितानि स्फोटकवस्तूनि इत्यादीनि अधिगते आयुधसञ्चये अन्तर्भवन्ति। 

  गते शनिवासरे तौबलजनपदे चिङ्खं चिङ् इत्यत्र कृते अन्यस्मिन् अन्वेषणे नालिकाशस्त्राणि, अश्रुवातकस्फोटकाः इत्यादीनां सञ्चयः अधिगतः आसीत्।

 वैद्यशास्त्रनोबेल् पुरस्काराय द्वौ अर्हतः - विक्टर् अम्ब्रोसः, गारि रव्कनः च। 

स्टोक् होमः> अस्य संवत्सरस्य वैद्यशास्त्रनोबेल् पुरस्कारः  अमेरिकीयौ शास्त्रज्ञौ विक्टर् अम्ब्रोसः [७०], गारि रव्कनः [७२] च विभज्य स्वीकरिष्यतः। 'मैक्रो आर् एन् ए' इत्यस्य अधिगमनं, प्रोटीनस्य उद्पादने जनितकस्य प्रवर्तनं नियन्त्रणं च इत्येतत्  प्रकरणद्वयमेव तयोः पुरस्कारकारणमभवत्।

कुम्भमेलनं पलास्तिककमुक्तं कर्तुं कृत्रिमबुद्धि-तन्त्रज्ञानं, ७०० वैद्युतिक-यानानि च; कुम्भमेलनस्य चिह्नं योगिना आदित्यनाथेन प्रकाशितम्।

    उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजे कुम्भमेलनस्य सिद्धीनाम् अवलोकनं कृतवान्। महाकुम्भः २०२५ इत्यस्य चिह्नं (logo) रविवासरे उदघाटयत्। तेन अन्तर्जालदृश्यपुटस्य तथा एप् सुविधयायाः अपि लोकार्पणं कृतम्। अपि च महोदयेन कुम्भमेलनस्य सिद्धीनां प्रगति: अधिकारिभिः सह चर्चिता, मुख्येषु स्थलेषु स्थलीयनिरीक्षणं च कृतम्। कुम्भमहोत्सवः २०२५ तमस्य जनवरी-मासस्य १४ दिनाङ्कात् फेब्रुवरी-मासस्य २६ दिनाङ्कपर्यन्तं

Monday, October 7, 2024

 राष्ट्रे पञ्चसु राज्येषु एन् ऐ ए- अकस्मात् अन्वेषणं प्रचलति।


   आतङ्कवाद-संबन्धं आशङ्क्य राष्ट्रस्य पञ्चसु राज्येषु राष्ट्रिय-अन्वेषण-कार्यालयस्य (NIA) आकस्मिकम् अन्वेषणं प्रचलति। जम्मु-कश्मीरे, महाराष्ट्रे, उत्तरप्रदेशे, असमे, दिल्ल्यां च  द्वाविंशति स्थलेषु अन्वेषणं प्रवर्तमानं वर्तते। आतङ्कवाददलस्य जैष्-ए-महम्मद-संबन्धं शङ्कित्वा भवति इदं आकस्मिकम् अन्वेषणम्। महाराष्ट्रस्य मालेगाव-नगरे एका होमियो-औषधालये अपि एनआइए- अन्वेषणम् अभवत्। आतङ्कवाद-संबन्धम् आशङ्क्यमानाः सप्त जनाः अस्मिन् अन्वेषणे गृहीताः इति वार्ताः प्राप्ताः। पाकिस्थानम् आधारं कृत्वा स्थितः आतङ्कवाद-दलः भवति जैष्-ए-महम्मद् ॥

©®

 महिला टि - २० विश्वचषकः 

पाकिस्थानं विरुध्य भारतस्य  विजय‌ः। 

दुबाय्> महिलानां टि - २० क्रिकेट विश्वचषकस्पर्धायां भारतस्य द्वितीये प्रतिद्वन्द्वे पाकिस्थानं ६ द्वारकाणां पराजितवत्। पाकिस्थानं २० क्षेपणचक्रैः ८ द्वारकाणां विनष्टे १०५ धावनाङ्काः। भारतं , १८. ५ क्षेपणचक्रैः ४ द्वारकाणां विनष्टे १०८ धावनाङ्काः। 

  प्रथमस्पर्धायां न्यूसिवान्टं प्रति पराजयं स्वीकृतस्य भारतस्य अयं विजयः पूर्वान्त्यस्पर्धां  प्रतीक्षां क्रियते।

 अशोकन् चरुविल् वर्यः वयलार् पुरस्कारेण समाद्रियते। 


अनन्तपुरी> प्रसिद्धः साहित्यकारः अशोकन् चरुविल् स्वस्य 'काट्टूर् कटव्' इत्यनया आख्यायिकया वयलार् पुरस्काराय चितः। लक्षं रूप्यकाणि, कांस्यशिल्पं, प्रशस्त्पत्रं च पुरस्काररूपेण लभते। वयलार् रामवर्मा मेमोरियल् ट्रस्ट् इत्यनेन दीयमानः पुरस्कारः वयलार् रामवर्मणः स्मृतिदिने ओक्टोबर् २७ तमे दिनाङ्के अनन्तपुर्यां दास्यते।

 गासायाम् आराधनालयं प्रति इस्रयेलस्य आक्रमणम्। 

२६ जनाः हताः। 

गासानगरं> गासां प्रति इस्रयेलस्य आक्रमणं शक्तं कृतम्। मध्यगासायां अभयार्थिनः अभयस्थानरूपेण वर्तमानम् आराधनालयं प्रति रविवासरे इस्रयेलेन कृते आक्रमणे २६ जनाः मृत्युमुपगताः। डेयर् अल् बला इत्यस्मिन् स्थाने अल् अख्सा नामकमाराधनालयं प्रति आसीदाक्रमणम्। 

  आराधनालयस्थं हमासस्य नियन्त्रणस्थानं लक्ष्यीकृत्य परिमितमाक्रमणमेव कृतमिति इस्रयेलेन निगदितम्। अनेन सह उत्तरगासास्थं जबलियां लक्ष्यीकृत्य पुनः स्थल-व्योमाक्रमणमारभ्यते इति च इस्रयेलसेनया प्रख्यापितम्।

Sunday, October 6, 2024

 औषधनिर्देशपत्रे आरभ्य मुद्रापर्यन्तं पञ्जीकरणस्य विवरणम् आवश्यकम्’; व्याजचिकित्सकान् विरुद्ध्य ऐ एम् ए।

    व्याजचिकित्सकान् विरुद्ध्य कठोराः उपायाः स्वीकर्तव्याः इति भारतीय-चिकित्सक-संघः (IMA) प्रार्थयते। चिकित्सकाः स्वकीयेषु, औषधनिर्देशपत्रेषु, मुद्रासु च मान्यतालब्दबोधकं स्नातक-उपाधिं तथा चिकित्सक-मण्डल-पञ्जीकरण-संख्यां च सम्मेलयितुम् उत्तरदायिनः सन्ति इति ऐ एम् ए संघः वार्ताहरपत्रिकया सूचितवान्।

   प्रति संवत्सरं  80000-90000 भारतीय वैद्याः  एम्.बी.बी.एस् स्नातकाः भारतस्य विश्वविद्यालयेभ्यः तथा विदेश-विश्वविद्यालयेभ्यश्च  अध्ययनं कृत्वा बहिरागच्छन्ति। तथापि  व्याजचिकित्सकेभ्यः अल्पचिकित्सकेभ्यश् च  वैद्यम् अनुष्ठातुं कथम् अवसरः लभ्यते ?। चिकित्सकान् अन्यांश्च कर्मकरान् कर्मणि नियोजयितारः तेषां पूर्वकालीनः कर्मपरिचयः इत्येतानि निरीक्षितव्यानि। तदर्थम् आतुरालयस्य प्रबन्धकाणां सर्वकारस्य च उत्तरदायित्वम् अस्ति इति ऐ एम् ए स्मारयति। दोषिणं विरुद्ध्य कठोरः दण्ङः देयः इति च संघः प्रार्थयते। विविधेषु आतुरालयेषु व्याजचिकित्सकाः कर्म कुर्वन्ति इति कारणेन रोगिणः मृताः भवन्ति इति प्रतिवेदनस्य कारणेन भवति ऐ एम् ए निर्देशः।

 इस्रयेले हमास् आक्रमणस्य श्वः एकं वयः। 

जरुसलेमः> वर्तमानकालीयस्य इस्रयेल-हमासयुद्धस्य कारणभूताय आक्रमणाय ओक्टोबर् ७ सोमवासरे एकः वर्षः पूर्तीक्रियते। गतवर्षे अस्मिन् दिने इस्रयेलीयान् विदेशीयान् चाभिव्याप्य १२०० जनाः हमासस्य आक्रमणे हताः। २५० जनाः हमासेन अपहृताः। एतत्य प्रतीकाररूपेणैव गासायाम् इस्रयेलस्य आक्रमणमारब्धम्। 

  श्वः हामासाक्रमणस्य अनुस्मरणाय इस्रयेलः सिद्धतां कुर्वन्नस्ति। एस्दरोतनगरे आयोज्यमाने कार्यक्रमे राष्ट्रपतिः ऐसक् हेर्सोगः नेतृत्वं वक्ष्यति।

 कैरल्याः वार्तावतारकः एम् रामचन्द्रः दिवंगतः। 


अनन्तपुरी> कैरलीवार्ताप्रवाचने कण्ठस्वरेण नवचरितं रचितवान् आकाशवाण्याः भूतपूर्वः वार्ताप्रवाचकः रामचन्द्रः दिवंगतः। ९१ वयस्कः आसीत्। आकाशवाणीवार्तावतरणे 'कौतुकवार्ताः' इत्यस्मिन् प्रकरणे अपि तस्य शब्दभाववैचित्र्येण सः लक्षशः आकाशवाणीश्रोतृजनान् हठादाकर्षति स्म। 

  १९६५ तमे वर्षे दिल्ल्याम्  आकाशवाणीसेवाम् आरब्धवान् रामचन्द्रः १९७० तमे कोष़िक्कोट् निलये प्रथमः  वार्तावतारकः अभवत्। भारत-पाकिस्थानयुद्धं, प्रधानमन्त्रिणः इन्दिरागान्धिनः मृत्युः, केरलीयस्य के आर् नारायणस्य राष्ट्रपतिपदप्राप्तिः इत्याद्याः चरित्रवार्ताः तस्य शब्देनैव केरलीयाः ज्ञातवन्तः। १९९५ तमे वर्षे सेवानिवृत्तोSभवत्। 

  एम् रामचन्द्रस्य भौतिकशरीरं अद्य प्रभाते १०. ३० वादने अनन्तपुर्यां प्रस् क्लब् भवने समान्यजनानां कृते अन्तिमोपचारसमर्पणाय संस्थाप्यते। अनन्तरं तैक्काटस्थे शान्तिकवाटे संस्कारक्रियाः विधास्यन्ति।

 भारतस्य विदेशकार्यमन्त्री श्रीलङ्काराष्ट्रपतिं सन्दृष्टवान्। 

कोलम्बो>  भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः श्रीलङ्कायाः राष्ट्रपतिना अनुर कुमार दिसनायकेन सह गतदिने  मेलनं कृतवान्। उभयोरपि राष्ट्रयोः मिथः बन्धं सहयोगं च दृढीकर्तुमधिकृत्य चर्चा सम्पन्ना। श्रीलङ्कायाः आर्थिकपुनरुज्जीवनाय भारतस्य सहयोगः अनुवर्तिष्यते इति जयशङ्करः न्यवेदयत्।

Saturday, October 5, 2024

 वनिता विश्वचषके भारतस्य पराजयः। 

दुबाय्>  महिलाक्रिकट् क्रीडायाः टि - २० विश्वचषकस्पर्धायां भारतस्य न्यूसिलान्टेन सह  प्रथमस्पर्धा पराजये परिसमाप्ता। 'ए संघस्य' प्रतिद्वन्द्वे न्यूसिलान्टं प्रति ५८ धावनाङ्कानां पराजयः।

  अङ्कप्राप्तिः - न्यूसिलान्टः २० क्षेपणचक्रेषु ४ क्रीडकानां विनष्टे १६० धावनाङ्काः। भारतं - १९ क्षेपणचक्रेषु १०६ केवलं धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः।

 छत्तीसगढ़े २८ मावोवादिनः हताः। 

दन्तेवाडा> छत्तीसगढराज्यस्य बस्तरक्षेत्रे सुरक्षासेनया सह प्रतिद्वन्द्वे २८ मावोवादिनः हताः। अबुजमादकाननान्तर्भागे नारायणपुर-दन्तेवाडा जनपदसीमासमीपे तुल्तुलि, नेण्टूर् ग्रामयोः वनान्तर्भागे आसीत् प्रतिद्वन्द्वः जातः।

  मावोवादिभ्यः ए के- ४७ भुषुण्डिनः महदायुधसञ्चयः च निगृहीताः। सुरक्षासेनाङ्गाः सर्वे सुरक्षिताः इति आरक्षकाधिकारिभिः निगदितम्।

 हरियाने अद्य जनविधिः। 

चण्डीगढ़ः> हरियानराज्ये विधानसभानिर्वाचनम् अद्य सम्पद्यते। प्रभाते सप्तवादने मतदानं  समारब्धम्। 

  ९० मण्डलेषु १०३१ स्थानाशिनः जनहितं कांक्षन्तः सन्ति। मतगणना अष्टमे दिनाङ्के सम्पत्स्यते।

Friday, October 4, 2024

 बी एस् एन् एल् षण्मासाभ्यन्तरे सम्पूर्णं '४ जि' भविष्यति। 


नवदिल्ली> भारतीय सञ्चार् निगम् लिमेटड् इति भारतसर्वकारस्य दूरवाणीसंस्थायाः उपभोक्तॄणां कृते सन्तोषवृत्तान्तः आगच्छति। २०२५ मार्च् मासाभ्यन्तरे बी एस् एन् एल् इत्यस्य ७५०० गोपुराणि [towers] '४ जी' क्षमाणि भविष्यन्ति। एतावदन्तरे २५०० गोपुराणि '४ जी' क्षमाणि जातानि। 

   इतरसेवनदातारैः तेषां 'डाटा मूल्यं' वर्धापितमित्यतः बहवः बी एस् एन् एल् प्रति सेवनपरिवर्तनं कृतवन्तः। तथा १. ३ लक्षं जनाः  नूतनतया बी एस् एन् एल् उपयोक्तारः अभवन् इति सूच्यते। बी एस् एन् एलस्य वर्तमानीया 'नेट् वर्क्'सुविधा '५जी' संविधानानुगुणा अस्ति इत्यतः २०२५ डिसम्बरमासाभ्यन्तरे एव '५जी' सेवनान्यपि दातुं शक्यते।

Thursday, October 3, 2024

 इरान-इस्रयेलसंघर्षः - पश्चिमेष्यां प्रति विमानानि निरस्तानि। 

टेल् अवीव्> इस्रयेलस्य लेबननाक्रमणमनुबन्ध्य इरानस्य इस्रयेलं विरुध्य आक्रमणस्य आधारे विविधराष्ट्राणां व्योमयानसंस्थाः पश्चिमेष्यां प्रति विमानसेवाः अत्यजन्। लुफ्तान्सा, एयर् इन्डिया, स्विस् एयर्लैन्स्, के एल् एम्, एमिरेट्स्, ब्रिटीष् एयर् वेस् इत्यादिभिः विमानसेवासंस्थाभिः  ओक्टोबर्मासान्तपर्यन्तं सेवाः  स्थगिताः।

 लबनने आक्रमणं तीव्रम्। 

अष्ट इस्रयेलीयसैनिकाः हताः। 

बय्रूट्> स्थलयुद्धारम्भात् परं द्वितीये दिने ह्यः लबनने सर्वत्र इस्रयेलेन तीव्रं व्योमाक्रमणं विधत्तम्। दक्षिणलबनने स्थानद्वये कृते प्रतिद्वन्द्वे स्वकीयाः अष्ट सैनिकाः हता इति इस्रयेलेन निगदितम्।

   मङ्गलवासरे विधत्ते युद्धे लबनने ५५ जनाः मृत्युमुपगताः। १५६ जनाः आहताश्च।

 महिला टि - २० विश्वचषकस्पर्धापरम्परा यू ए ई राष्ट्रे अद्य आरभ्यते। 

उद्घाटनस्पर्धायां बङ्गलादेशः × स्कोटलान्टः। 

भारतस्य प्रथमस्पर्धा श्वः न्यूसिलान्टं प्रति।

दुबाय्> महिलानां टि - २० विश्वचषकक्रिकट् क्रीडास्पर्धापरम्परायाः नवमं संस्करणम् अद्य  यू ए ई राष्ट्रे समारभ्यते। उद्घाटनस्पर्धा सायं ३. ३० वादने बङ्गलादेश- स्कोटलान्टयोर्मध्ये भविष्यति। भारतस्य प्रथमस्पर्धा श्वः न्यूसिलान्टं विरुध्य सम्पत्स्यति। हर्मन् प्रीत कौर् भवति भारतीयदलस्य नायिका। 

   आहत्य दश दलाः भागं करिष्यन्ति। वर्तमानीया वीरदलः आस्ट्रेलिया भवति। अन्तिमस्पर्धा ओक्टोबर् २० तमे दिनाङ्के भविष्यति।

महाकुम्भमेला -५० कोटि जनाः - ९९२ विशेषरेल्यानानि -मूल सुविधायै ९३३ कोटि रूप्यकाणि।

   २०२५ तमे वर्षे जनुवरिमासस्य १२ दिनाङ्के उत्तरप्रदेशराज्ये प्रयागराजे महाकुम्भमेलायाः आयोजनं भविष्यति। अस्यां देशस्य विभिन्नभागेभ्यः ५० कोटिजनाः आगमिष्यन्ति, ईदृश्यां स्थित्यां ९९२ विशेषरेल्यानानि धावयितुं रेल्मन्त्रालयेण निश्चितम्। मूलसुविधाविकासाय चान्येषां सुविधायै च  ९३३ कोटीरूप्यकाणि रेल्मार्ग-वित्तीय-योजनायां विनियोजितानि सन्ति। सर्वेभ्यः तीर्थयात्रिकेभ्यः सुरक्षया सह  कार्यक्षमयात्रानुभवः प्रदास्यते इति रेल्मार्गमन्त्रिणा अश्विनिवैष्णवेण उक्तम्।

Wednesday, October 2, 2024

 इस्रयेलेन स्थलयुद्धम् आरब्धम् - भीत्यां पश्चिमेष्या। 

लबननसीमायां इस्रयेलस्य युद्धसन्नाहः। 

जरुसलेमः> लबनने इस्रयेलः स्थलयुद्धम् आरभत। दक्षिणलबनने हिस्बुल्लायाः शक्तिकेन्द्रेषु सोमवासरस्य अर्धरात्रौ नियन्त्रितं परिमितम् आसूत्रितं च स्थलयुद्धमारब्धमिति इस्रयेलसेनया निगदितम्। सीमायां २५ ग्रामेषु वर्तमानाः स्थानं त्यक्तुम् इस्रयेलेन निर्दिष्टाः। 

  प्रत्युत, स्थलयुद्धस्य अनुक्रमेण टेल्-अवीव्, जरुसलेमं च लक्ष्यीकृत्य इरानेन शताधिकानि अग्निशस्त्राणि [Missile] विक्षिप्तानि। किन्तु जोर्दानस्य आकाशे एव तानि इस्रयेलेन भस्मीकृतानीति 'रोयिटेर्स्' इत्यनेन निगदितम्।

 अद्य गान्धी जयन्ती। 

महात्मने भारतपुत्राणां शतकोटि वन्दनानि


 जम्मु-काश्मीरनिर्वाचनं - ह्यः ६५. ४८% मतदानम्। 

श्रीनगरं>  जम्मु-काश्मीरे ह्यः सम्पन्नस्य विधानसभानिर्वाचनस्य अन्तिमे तथा च तृतीये चरणे ६५. ४८% मतदायकाः मतदानं कृतवन्तः। सायं पञ्चवादनपर्यन्तं लब्धां गणनामनुसृत्य एवैतत्।  मतदानप्रक्रिया शान्तियुक्ता आसीत्। 

  प्रथमसोपाने ५८. ८५%, द्वितीये ५६. ५% इत्येवं रीत्या आसीत् मतदानम्। आहत्य ९० मण्डलानि सन्ति। मतगणना अस्य मासस्य अष्टमे दिनाङ्के सम्पत्स्यते।

Tuesday, October 1, 2024

 सुनितायाः प्रतिनिवर्तनं - पेटकं बहिराकाशनिलयं सम्प्राप्तम्। 

वाषिङ्टणः> नासासंस्थायाः शास्त्रज्ञौ सुनिता विल्यंसं बुच् विल्मोरं च भूमिं प्रत्यानेतुं सज्जं स्पेय्स् एक्स् इत्यस्य क्रू - ९ नामकं पेटकम् अन्तर्राष्ट्रीय बहिराकाशनिलयं सम्प्राप्तम्। 

  फेब्रुवरि मासे तयोः निवर्तनं भविष्यति।  मासचतुष्टयं यावत् द्वावपि बहिराकाशनिलये लग्नौ स्तः।

FacebookWhatsAppTelegramTwitter

 "ईश्वरान् राजनीतिभ्यः विनिर्वर्तयत" इति  सर्वोच्चन्यायालयः। 

     धर्मं राजनितिं च मिथः न संयोजनीया इति सर्वोच्चन्यायालयस्य अभिमतिः। तिरुपति देवस्थानस्य लड्डौ पशुवसाः आरोपिताः इति कारणेन सर्वोच्चन्यायालये प्राप्ते जनहितयाचिकायाम् आसीत् एषा आलोचना। विशेषान्वेषणदलस्य नियुक्तेः सम्बन्धेन याचिका आसीत्।

     चन्द्रबाबु नायडुम् अपि सर्वोच्चन्यायालयः विमृष्टवान्। लड्डौ मिलितं दुष्टं न अद्यापि प्राप्तम्। परीक्षणं कृतस्य घृतस्य अंशः लड्डुनिर्माणे नोपयुज्यते स्म। तथापि पूर्वं चन्द्रबाबु नायडुः केनकारणेन जनमाध्यमेषु आरोपं प्रस्तुतवान् इति न्यायालयः अपृच्छत्।

FacebookWhatsAppTelegramTwitter

 उद्योग-मन्त्रिणम् उपसृत्य उद्यमिनः उक्तवन्तः, विद्युतः शुल्कं यदि न न्यूनीक्रियते तर्हि वयं विनष्टाः भविष्यामः।

   नालागढ् (सतविन्द्रः): हिमाचलप्रदेशस्य उद्योगेषु वर्धितानां विद्युतः-शुल्कानां विषये उद्यमिनां एकः प्रतिनिधिमण्डलः सोमवासरे उद्योगमन्त्रिणं हर्षवर्धनचौहानं परवाणौ टिम्बर् ट्रेल् इत्यस्मिन् मिलितवान्। उद्योगमन्त्री एकस्मिन् दिवसीययात्रायाः निमित्तत्वेन नालागढ्-विधानसभा-क्षेत्रं प्राप्तवान्। अस्मिन् काले कार्यक्रमस्य अनन्तरं शिमिलां प्रत्यागच्छन् सः परवाणौ उद्योगपतिभिः सह मिलितवान् तथा तेषां समस्याः श्रोतुम् आरब्धवान्। राज्यस्य उद्यमिनः एकस्वरेण विद्युत्शुल्कं न्यूनं करणीयम् इति मन्त्रिणः पुरतः न्यवेदयन्त, तथा च उक्तवन्तः यदि विद्युत- शुल्कं न न्यूनं क्रियते तर्हि ते विनष्टाः भविष्यन्ति इति। उद्यमिनः अन्येषु राज्येषु प्रचलितानां विद्युत्शुल्कस्य चार्ट् पत्रम् तथा अन्यराज्यानां विद्युत्शुल्कैः सह स्वराज्यस्य शुल्कस्य तुलनात्मकं पत्रं च प्रदर्शितवन्तः।

FacebookWhatsAppTelegramTwitter

 जम्मुकाश्मीरं - निर्वाचनस्य अन्त्यचरणमद्य। 

श्रीनगरं> जम्मु-काश्मीरे विधानसभानिर्वाचनस्य तृतीयम् अन्तिमं च चरणम् अद्य विधास्यति। ४० मण्डलानि अद्य जनहितं कांक्षन्ति। काश्मीरक्षेत्रे १६, जम्मु क्षेत्रे २४ च विधानसभामण्डलानि अन्तर्भवन्ति। ४१५ स्थानाशिनः स्पर्धन्ते।

FacebookWhatsAppTelegramTwitter

 सिञ्चन्यः क्षतिना रासवस्तुनिर्माणागारः ज्वलितः।

      जोर्जिया> जोर्जियायां रासवस्तुनिर्माणागारे अग्निबाधा दुरापन्ना। सिञ्चन्यः (sprinkler) क्षतिना रासवस्तुः जलेन सह प्रतिप्रवर्त्य एव अग्निबाधा दुरापन्ना।  रासवस्तुनिर्माणागारत् दूरतः गन्तुं देशवासिनं प्रति अधिकारिणः निर्देशं दत्तवन्तः।

FacebookWhatsAppTelegramTwitter