लबनने युद्धविरामाय निर्देशः इस्रयेलेन निरस्तः।
यू एन्> लबनने सायुधसंघः हिस्बुल्ला इत्यमुं विरुद्ध्य २१ दिनानि यावत् युद्धविरामाय अमेरिका, फ्रान्स् इत्यादीनां लोकराष्ट्राणां निर्देशः इस्रयेलेन निराकृतः। लबनने इस्रयेलेन स्थलयुद्धमारप्स्यते इत्याशङ्कायां वर्तितायां २१ दिनाभ्यन्तरे नयतन्त्रचर्चाभिः युद्धनिवृत्तिरासीत् लोकराष्ट्राणां लक्ष्यम्।
किन्तु हिस्बुल्लां विरुध्य अन्तिमविजयपर्यन्तं युद्धमनुवर्तिष्यते इति इस्रयेलप्रधानमन्त्रिणा बञ्चमिन नेतन्याहुना उक्तम्।