विदेशछात्रान् न्यूनीकृत्य कानडाराष्ट्रम्।
ओट्टावा> विदेशविद्यार्थिनां कृते दीयमानानां शैक्षिकानुज्ञापत्राणां संख्यां न्यूनीकरिष्यतीति कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो इत्यनेन निगदितम्। गतवर्षात् ३५% न्यूनीकृतानुज्ञा एव अस्मिन् वर्षे दीयते। आगामि वर्षे ततः १०% न्यूनीकरिष्यति।
सहस्रशः भारतीयविद्यार्थिनां प्रतिकूलाय भविष्यत्ययं निर्णयः।