OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 29, 2024

 प्रधानमार्गाः अवरुद्धाः। जनाः क्लिष्टाः।

    हमीरपुरम्> जनपद मुख्यालयस्य मुख्यमार्गाः रविवासरे निर्माणसामग्रीणां संग्रहक्षेत्रमिव दृश्यन्ते। प्रतिरविवासरे अपि व्यापारीभिः भवननिर्माणकार्याय मार्गाः अवरुद्धाः भवन्ति। तेन मार्गेण गच्छतां वाहनचालकानां यात्रिकाणां च कठिनताः समुपतिष्ठन्ति। रविवासरे मुख्ये व्यापारप्रदेशे हंमीरपुरनगरे गान्धीचौकस्मारकात् डंगक्वालिमार्गपर्यन्तं व्यापारीभिः भवननिर्माणकार्यस्य निमित्तं दिवसं सम्पूर्णतया मार्गः अवरुद्धः कृतः। तेन वाहनचालकाः यात्रिकाः च स्वामिदयानन्दचौकं मण्डलीकृत्वा एव मार्गं सम्पद्यन्ते स्म। अस्मात् पूर्वं अपि व्यापारीभिः भवननिर्माणकार्याय मार्गाः अवरुद्धाः कृताः सन्ति, परन्तु प्रशासनस्य पक्षतः किंचनापि कार्यं न कृतं अत एव व्यापारिभिः अनस्यूततया मार्गान् अवरुद्धान् कर्तुम् प्रवृत्ताः सन्ति। नगरवासिनः प्रकाशचन्दसेनः, अश्विनिशर्मा, कार्तिकराणः, शान्तिवर्मा, प्रदीपराणः इत्यादयः अवदन् यत् व्यापारकेन्द्र-प्रदेशेषु व्यापारीभिः भवननिर्माणकार्याय रविवासरे मुख्यमार्गः
अवरुद्धः क्रियते। निर्माणकार्याय प्रशासनतः अनुमति अनिवार्या अस्ति, परन्तु व्यापारीभिः प्रशासनस्य कार्याभावे यथेष्टं मार्गाः अवरुद्धाः क्रियन्ते। मार्गे निर्माणसामग्रीं निक्षिप्य सम्पूर्णमार्गस्य अवरोधः न क्रियतव्यो भवति। मार्गे वाहनानां यात्रिकाणां च गमनाय मार्गस्य अर्धम् अपि मुक्तं कर्तव्यम् । तत् अनिवार्यं अस्ति, परन्तु नगरे तस्मिन्विपरीतम् आचरणं दृश्यते। ते उक्तवन्तः यत् अस्माकं समस्यां प्रशासनाय बहुवारं विज्ञापितवन्तः स्म, किन्तु अद्यावधि समस्यायाः समाधानं न प्राप्तम्। ते प्रशासनतः समस्यायाः शीघ्रं समाधानं कर्तुं प्रार्थयन्ति।