OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 21, 2024

 उच्चशिक्षायाः कृते नवीनशिक्षानीतौ समाविष्टानां तकनीकी-नैतिकमूल्यानां निरन्तरप्रशिक्षणम् आवश्यकम् - प्रो. इन्दुपाण्डेयखण्डूरी

वार्ताहर:- कुलदीपमैन्दोला।श्रीनगरम्।

     विश्वविद्यालयानुदनायोगान्तर्गतं- मालवीयमिशनशिक्षक- प्रशिक्षणकेन्द्रे सेवारतशिक्षकाणां प्रशिक्षणार्थं 'एन-आई-टी' इत्यनेन कार्यक्रमः समायोजित: आसीत् । 21 अगस्तत: 19 सितम्बर 2024 दिनांकं यावत्, अन्तर्जालमाध्यमेन गुरुदक्षता-संकायप्रेरण आसीत् कार्यक्रमः।

 उत्तराखण्डं, उत्तरप्रदेश:, दिल्ली, बिहारं, उड़ीसा, राजस्थानं तथा झारखण्ड: इत्यादीनाम् राज्यानां शिक्षकप्रतिभागिनः प्रशिक्षणं प्राप्तवन्तः 

   मालवीयकेन्द्रद्वारा आयोजितेस्मिन् गुरुदक्षता कार्यक्रमस्य समापनसत्रस्य मुख्यातिथि: प्रो. एन. एस. पंवार: विश्वविद्यालयकुलसचिव: कौशलयुक्तान्, कुशलप्रबन्धनान् च संस्थानां कृते सम्पत्तिरूपेण मन्यते स्म। सः अवदत्

यत् मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रात् देशस्य सर्वेभ्यः शिक्षकेभ्यः प्रशिक्षणं क्रियते इति महान् सुखस्य विषयः। सः अवदत् यत् यथा गुरुकुलेषु व्यक्तित्वस्य सर्वेऽपि पक्षाः प्रवर्धिताः, तथैव मालवीयकेन्द्रेण शिक्षकाणां व्यक्तित्वं परिष्कृतं भवति।

    कार्यक्रमे मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रस्य निदेशिका प्रो. इन्दुपाण्डेयखण्डूरी कार्यक्रमस्य मुख्योद्देश्यं प्रकाशितवती। गुरुदक्षतादिकार्यक्रमाः उच्चशिक्षायाः प्रशिक्षणार्थं उपयोगिनो भवन्ति इति सा अवदत्। सुखस्य परमकल्याणस्य च अनुसरणं कुर्वन् शिक्षकस्य नैतिकमूल्यानि, भावनात्मकबुद्धिः, अनुसन्धानं, नेतृत्वं, समीक्षात्मकचिन्तनं, सामाजिककल्याणं, ए.आइ. इति तथा च प्रौद्योगिकी इत्यादीनां एकीकरणस्य आवश्यकता वर्तते। सा अवदत् यत् प्रारम्भिकपञ्जीकरणार्थं १७७ आवेदनपत्राणि प्राप्तानि, येषु ५४ शिक्षकाः कार्यक्रमे भागं ग्रहीतुं आरब्धवन्तः, ४७ शिक्षकाः प्रशिक्षणं प्राप्तवन्तः। एकमासपर्यन्तं आयोजिते अस्मिन् सम्पूर्णे कार्यक्रमे २६ कार्यदिनेषु सार्धघण्टायाः १०४ तकनीकीसत्रेषु आयोजनं कृतम् । हिमाचलप्रदेश:, दिल्ली, पंजाब:, राजस्थानं, उत्तरप्रदेश:, उत्तराखण्डं, अरुणाचलप्रदेश:, असम:, हरियाणा, महाराष्ट्र: इत्यादिभ्य: प्रतिष्ठितोच्चशिक्षणसंस्थानेभ्य: समागता: प्रतिभागिन: 40 प्रशिक्षकै: प्रशिक्षिता: अभवन्।


    कार्यक्रमस्य विभिन्नेषु तकनीकिसत्रेषु कौशलविकासः अखण्डताविषये, अकादम्यां नैतिकमनः, न्यूरोलिंग्वस्टिकप्रोग्रामिंग इति, 21वीं शताब्द्याः शिक्षिकासु भविष्यवादीकौशलस्य निर्धारणं, एन-ई-पी इति, शैक्षणिकनेतृत्वं, उच्चशिक्षापारिस्थितिकीतन्त्रं, अनुसन्धानं विकासं च, संकायप्रवर्धनं तथा अवकाशं च आ-ई-सी च इत्यादिमहत्त्वपूर्णविषयान् मनसि कृत्वा शिक्षकप्रतिभागिभ्यः प्रशिक्षणं प्रदत्तम्।  

    तकनीकीसत्रस्य अतिरिक्तं सूक्ष्मशिक्षणं, परियोजनाप्रस्तावलेखनं, समूहचर्चा, एमसीक्यू इत्यादीनि अपि शिक्षकाणां प्रशिक्षणार्थं कार्यक्रमस्य भागाः आसन्।

      अस्मिन् कार्यक्रमे मालवीयकेन्द्रस्य सहनिदेशकः डॉ. सोमेश: थपलियालः सर्वेषां स्वागतं संचालनं च कृतवान् । केन्द्रस्य सहनिदेशकः डॉ. राहुलकुंवरसिंहः कार्यक्रमस्य रूपरेखां वदन् सर्वेभ्यः धन्यवादं दत्तवान्। कार्यक्रमस्य कार्यकारिणीत: डॉ. अनुरागगोयलः कार्यक्रमस्य आयोजने सहायतां कृतवान्। पूनमरावत:, अनिलकठैतः च सहकार्यं कृतवन्तौ ।