केज्रिवालेन त्यागपत्रं समर्पितम्; अतिषी नूतनमुख्यमन्त्रिणी।अतिषी मर्लेनसिंहः।
नवदिल्ली> राष्ट्पराजधान्यां मुख्यमन्त्रिपदे अरविन्द केज्रिवालस्य अनुगामिरूपेण ए ए पि नेत्री ४३ वयस्का अतिषी मार्लेनसिंहः ऐककण्ठ्येन चिता।
ह्यः मुख्यमन्त्रिपदं त्यक्तवान् केज्रिवालः लफ्ट. राज्यपालः वि के सक्सेनः इत्यस्मै त्यागपत्रं समर्पितवान्। नूतनसर्वकाररूपीकरणाय अतिषी राज्यपालं प्रति स्वाधिकारवादम् उन्नीतवती।