OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 23, 2024

जम्मुकश्मीरदेशे आतङ्कवादस्य अन्त्यपर्यन्तं पाकिस्तानदेशेन सह शान्तिसंवादः न भविष्यति: - अमित शाहः।

   जम्मुकश्मीरदेशे आतङ्कवादस्य अन्त्यं विना पाकिस्तानदेशेन सह शान्तिसंवादः न भविष्यति इति केन्द्रगृहमन्त्री अमित शाहः अवदत् जम्मुकश्मीर-विधानसभा-निर्वाचनप्रचाराय नौशेरायाम् आयोजितायां निर्वाचनीय-पथसञ्चलने भाषमाणः आसीत् सः। विपक्षदलीयाः राष्ट्रिय-संमेलनदलः कांग्रेसदलः च विषयेऽस्मिन् समाश्रित्यैव सततम् आग्रहम् अकरोत्, परन्तु भाजपा-नेता अमितः शाहः पुनः अपि स्वस्य अभिमतं अवदत्।

    ‘‘अनुच्छेदः ३७० पुनरागमियिष्यते इति फरोख अब्दुल्ला कथयति। किन्तु

फरोख-साहिबेन चान्येन वा एतत् पुनरानेतुं न शक्यते। इदानीं भूगर्भरक्षानिलयः (बंकर्) अपि कश्मीरे न आवश्यकाः। कोऽपि तावत् साहसं कर्तुं नोद्युक्तः। एते शेख अब्दुल्लायाः ध्वजं पुनः स्थापयितुम् इच्छन्ति। किन्तु त्रिवर्णध्वजः जम्मुकश्मीरस्य आकाशे एव परिलसिष्यति। त्रिंशद्वर्षाणि यावत् कश्मीरे आतङ्कवादः स्थितः। त्रिसहस्रदिनानि यावत् कश्मीरदेशे  रोधनं (कर्फ्यू) स्थापितम्। चत्वारिंशत्सहस्रं जनाः हताः। तस्मिन्काले फरोख-साहिब: कुत्र आसीत्?’ इति अमितः शाहः पृष्टवान्, ‘‘कश्मीरे दग्धे सति फरोख-साहिबः लन्टनदेशे सुखसंपन्नं जीवनं कृतवान् आसीत् इत्यपि सः उक्तवान्।