भारत - यू ए ई राष्ट्राभ्यां पञ्च सम्मतिपत्राणि हस्ताक्षरीकृतानि।
नवदिल्ली> ऊर्जक्षेत्रे सहयोगशक्तीकरणाय भारत - यू ए ई राष्ट्राभ्याम् आणवोर्जः, द्रवीकृतप्रकृतिवातकं, पेट्रोलियम् इत्यादिषु मण्डलेषु चतुर्षु सम्मतिपत्रेषु भोज्योद्यानं स्थापयितुम् अन्यस्मिन् सम्मतिपत्रे च हस्ताक्षरं सम्पन्नम्।
अबुदाबि राष्ट्रस्य अधिकारी शैख् खालिद् बिन् मुहम्मद बिन् सायिद् अल् नह्यान् इत्येषः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च नवदिल्यां सम्पन्ने उपवेशनान्तरमासीत् सम्मतिपत्रेषु हस्ताक्षरीकरणम्।